मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् १

संहिता

त्यं सु मे॒षं म॑हया स्व॒र्विदं॑ श॒तं यस्य॑ सु॒भ्व॑ः सा॒कमीर॑ते ।
अत्यं॒ न वाजं॑ हवन॒स्यदं॒ रथ॒मेन्द्रं॑ ववृत्या॒मव॑से सुवृ॒क्तिभि॑ः ॥

पदपाठः

त्यम् । सु । मे॒षम् । म॒ह॒य॒ । स्वः॒ऽविद॑म् । श॒तम् । यस्य॑ । सु॒ऽभ्वः॑ । सा॒कम् । ईर॑ते ।
अत्य॑म् । न । वाज॑म् । ह॒व॒न॒ऽस्यदम् । रथ॑म् । आ । इन्द्र॑म् । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥

सायणभाष्यम्

त्यं सु मेषमिति पंचदशर्चं द्वितीयं सूक्तं सव्यस्यार्षमैंद्रम् । त्रयोदशी पंचदशी त्रिष्टुभौ शिष्टा जगत्यः । तथा चानुक्रांतम् । त्यं सु त्रयोदश्यंत्ये तिष्टुभाविति ॥ गवामयनस्य मध्यमेऽहनि विष्णुवत्संज्ञके मरुत्वतीयशस्त्र इदं सूक्तं विषुवान्दिवा कीर्त्य इति खंडे सूत्रितम् । त्यं सुमेषं कयाशुभेति च मरुत्वतीयम् (आ ८-६) इति ॥

त्यं तं प्रसिद्धं मेषं शत्रुभिः सह स्पर्धमानं स्वर्विदम् । स्वरादित्यो द्यौर्वा । तस्य वेदितारं लब्धारं वा । यद्वा । स्वः सुष्ट्वरणीयं धनम् । तस्य लंभयितारम् । एवंगुणविशिष्टमिंद्रं हे अर्ध्वर्यो सु महय । सम्यक् पूजय । यस्येंद्रस्य शतं शतसंख्याकाः सुभ्वः स्तोतारः साकं सहैव युगपदेवेरते स्तुतौ प्रवर्तंते । यद्वा यस्येंद्रस्य रथं शतं सुभ्वः शतसंख्याका अश्वाः साकं सहेरते । गमयंति । तमिंद्रमवसेऽस्मद्रक्षणाय सुवृक्तिभिः सुष्ट्वावर्जकैः स्तोत्रैः रथमाववृत्याम् । रथं प्रत्यावर्तयामि । कीदृशं रथम् । हवनस्यदम् । हवनमाह्वानं यागं वा प्रति वेगेन गच्छंतम् । वेगगमने दृष्टांतः । अत्यं न वाजम् । गमनसाधनमश्वमिव ॥ महय । मह पूजायाम् । चुरादिरदंतः । संहितायामन्येषामपि दृश्यत इति दीर्घत्वम् । सुभ्वः । सुष्ठु भवंतीति सुभ्वः स्तोतारः । क्विप् चेति क्विप् । कृदुत्तर पदप्रकृतिस्वरत्वम् । जस्योः सुपीति यणादेशस्य न भूसुधियोरिति प्रतिषेधे प्राप्ते छंदस्युभयथा (पा ६-४-८६) इत्युभयथाभावाद्यणादेशः । उदात्तस्वरितयोर्यण इति परस्य जसोऽनुदात्तस्य स्वरितत्वम् । ईरते । ईर गतौ कंपने च । अदादित्वाच्छपो लुक् । झस्यादादेशः । टेरेत्वम् । अनुदात्तेश्त्वाल्लसार्वधातुकानुदात्तत्वे धातु स्वरः शिष्यते । यद्वृत्तयोगादनिघातः । तत्र हि पंचमीनिर्देशेऽपि व्यवहितेऽपि कार्यमिष्यते । का ८-१-६६ । इत्युक्तम् । अत्यम् । अत्य इत्यश्चनाम । अत्यो हय इति पाठात् । वाजम् । वाज्यते गम्यतेऽनेनेति वाजः । वज व्रज गतौ । करणे घञ् । अजिव्रज्योश्च (पा ७-३-६०) इत्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वाद्वाजो वाज्यमित्यत्पापि कुत्वाभाव इत्युक्तम् । हवनस्यदम् । स्यंदू प्रस्रवणे । स्यदो जवे (पा ६-४-२८) इति वेगे गम्यमाने घञन्तो निपातितः । अत एव नलोपो वृद्ध्यभावश्च । न च न धातुलोप आर्धधातुके (पा १-१-४) इति वृद्धेः प्रतिषेधः । इग्लक्षणा हि वृद्धिस्तत्र प्रतिषिध्यते । न चेयमिग्लक्षणा । घञो ञित्त्वामत्तरपदस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । ववृत्याम् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुळं छंदसीति शपः श्लुः । द्विर्वचनादि । यासुटो ङित्वाल्लघूपध गुणाभावः । तिङ्ङतिङ इति निघातः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२