मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् ३

संहिता

स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभि॑ः ।
इन्द्रं॒ तम॑ह्वे स्वप॒स्यया॑ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ॥

पदपाठः

सः । हि । द्व॒रः । द्व॒रिषु॑ । व॒व्रः । ऊध॑नि । च॒न्द्रऽबु॑ध्नः । मद॑ऽवृद्धः । म॒नी॒षिऽभिः॑ ।
इन्द्र॑म् । तम् । अ॒ह्वे॒ । सु॒ऽअ॒प॒स्यया॑ । धि॒या । मंहि॑ष्ठऽरातिम् । सः । हि । पप्रिः॑ । अन्ध॑सः ॥

सायणभाष्यम्

स पूर्वोक्तगुणविशिष्ट इंद्रो द्वरिष्वावरीतृषु शत्रुषु द्वरो हि अतिशयेनावरीता खलु । शत्रुजयशील इत्यर्थः । यस्मादूधन्युद्धृतजलवत्यंतरिक्षे वव्रः संभक्तो व्याप्य वर्तते । अत एव चंद्रबुध्नः । सर्वासां प्रजानामाह्लादमूलः । अंतरिक्षस्य सर्वाह्लादकत्वात् । मदवृद्धः । माद्यंत्येभिरिति मदाः सोमाः । तैर्वर्धितः । एवंभूतो य इंद्रो मंहिष्ठरातिं प्रवृद्धधनं प्रवृद्धदानं वा तमिंद्रं मनीषिभिर्मनस ईषितृभिः प्राज्ञैर्ऋत्विग्भिः सह स्वपस्यया धिया शोभनकर्मयोग्यया बुद्ध्याह्वे । आह्वयामि । हि यस्मात्स इंद्रोऽंधसोऽन्नस्यासमदपेक्षितस्य पप्रिः पूरयिता ॥ द्वरः द्वृ इत्येके । द्वरत्यावृणोतीति द्वरः । पचाद्यच् । चित् स्वरेणांतोदात्तत्वम् । द्वरिषु । अच इरिति कर्तरीप्रत्ययः । वव्रः । वृङ् संभक्तौ । व्रियते संभज्यत इति वव्रः । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् । पा ३-३-५८-४ । इति परिगणनस्योपलक्षणार्थत्वात् । कर्मणि कप्रत्ययः । द्विर्भावश्छांदसः । ऊधनि । उत् ऊर्ध्वं ध्रियतेऽस्मिन् जलमित्यूधः । सप्तम्येकवचनेऽस्थिदधिक्थ्यक्ष्णामनङ्ङुदात्तश्भंदसत्वात्केवलादपि भवति । चंद्रबुध्नः । चदि आह्लादनॆ दीप्तौ च । इदित्त्वान्नुम् । स्फायितङ्चीत्यादिना रक् । प्रत्ययस्वरेणांतोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । मदवृद्धः । मदी हर्षे । मदोऽनुपसर्ग इति करणेऽप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । आह्वे । ह्वेञ् स्पर्धायां शब्दे च । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङ्यात्मनेपदेष्वन्यतरस्याम् (पा ३-१-५४) इति च्लेरङादेशः । आतो लोप इट चेत्याकारलोपः । गुणः । स्वपस्यया । अप इति कर्मनाम । शोभनमपः स्वपः । तदर्हतीति स्वपस्यः । छंदसि चेति यप्रत्ययः । मंहिष्ठरातिम् । महि वृद्धौ । अतिशयेन मंहित्री मंहिष्ठाम् । तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठे मेयःस्विति तृलोपः । नित्त्वादाद्युदात्तत्वम् । मंहिष्ठा रातिर्यस्य । स्त्रियाः पुवंत् (पा ६-३-३४) इति पुंवद्भावाद्ध्रस्वत्वम् । बहुव्रीहौ प्रकृत्येति पूर्वपदप्रकृतिस्वरत्वम् । पप्रिः । पृ पालनपूरणयोः । आदृगमहनजन इति किन् प्रत्ययः । उदोष्ठ्यपूर्वस्येत्युत्वस्य बहुळं छंदसीति वचनादभावे यणादेशः । लिड्वद्भावाद्द्वर्वचनेऽचीति स्थानिवद्भावे सति द्विर्भावोरदत्वहलादिशेषाः । नित्त्वादाद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२