मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् ६

संहिता

परीं॑ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् ।
वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो॑रिन्द्र तन्य॒तुम् ॥

पदपाठः

परि॑ । ई॒म् । घृ॒णा । च॒र॒ति॒ । ति॒त्वि॒षे । शवः॑ । अ॒पः । वृ॒त्वी । रज॑सः । बु॒ध्नम् । आ । अ॒श॒य॒त् ।
वृ॒त्रस्य॑ । यत् । प्र॒व॒णे । दुः॒ऽगृभि॑श्वनः । नि॒ऽज॒घन्थ॑ । हन्वोः॑ । इ॒न्द्र॒ । त॒न्य॒तुम् ॥

सायणभाष्यम्

यो वृत्रोऽपो वृत्वी । उदकान्यावृत्य रजसो बुध्नमंतरिक्षस्योपरिप्रदेशमाशयत् । आश्रित्याशेत । तस्य वृत्रस्य प्रवणे प्रकर्षेण वननीयेऽंतरिक्षे वर्तमानस्य दुर्गृभिश्वनो दुर्ग्रहव्यापनस्य । तस्य हि व्यापनं न केनापि ग्रहीतुं शक्यते । स इमान् लोकानावृणोदिति श्रुतेः । एवंभूतस्य वृत्रस्य हन्वोर्मुखपार्श्वयोः हे इंद्र यद्यदा तन्यतुं प्रहारं विस्तारयंतं यद्वा शब्दकारिणं वज्रम् । तृतीयार्थे द्वितीया । तन्यतुना वज्रेण निजघंथ । नितरां प्रजहर्थ । तदानीमिमेनं त्वामिंद्रं घृणा शत्रुजयलक्षणा दीप्तिः परिचरति । परितो व्याप्नोति । त्वदीयं शवो बलं च तत्विषे । प्रदिदीपे ॥ तित्विषे । त्विष दीप्तौ । लिट प्रत्ययस्वरः । तिङ् परत्वान्निघाताभावः । वृत्वी । वृञ् वरणॆ । स्नात्व्यादयश्च (पा ७-१-४९) इत्यादि ग्रहणात् क्त्वाप्रत्ययस्येकारः । रजसः । रंज रागे । रजंत्यस्मिन् गंधर्वादय इति रजोऽंतरिक्षम् । असुनि रजकरजनरजःसूपसंख्यानम् । पा ६-४- २४-४ । इति नलोपः । नित्त्वादाद्युदात्तत्वम् । अशयत् । शीङो व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपो लुगभावः । दुर्गृभिश्वनः । ग्रह उपादानेऽशू व्याप्तावित्यनयोर्दुःशब्द उपपदे पृषोदरादित्वादभिमतरूपस्वरसिद्धिः । निजघंथ । हन हिंसागत्योः । लिट थलि क्रादिनियमात्ट्रप्तस्येट उपदेशेऽत्वतः (पा ७-२-६२) इति निषेधः । आभ्यासाच्चेत्यभ्यासादुत्तरस्य हकारस्य घत्वम् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । तिङि चोदात्तवतीति गतेर्निघातः । यद्वृत्तयोगान्निघाताभावः । तन्यतुम् । तनु विस्तारे । अस्मादृतन्यंजीत्यादिना उ ४-२१ । यतुच् । यद्वा । स्तन शब्द इत्यस्माद्बहुलवचनाद्यतुच् प्रत्यये सकारलोपः ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३