मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् ७

संहिता

ह्र॒दं न हि त्वा॑ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा॑णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना ।
त्वष्टा॑ चित्ते॒ युज्यं॑ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू॑त्योजसम् ॥

पदपाठः

ह्र॒दम् । न । हि । त्वा॒ । नि॒ऽऋ॒षन्ति॑ । ऊ॒र्मयः॑ । ब्रह्मा॑णि । इ॒न्द्र॒ । तव॑ । यानि॑ । वर्ध॑ना ।
त्वष्टा॑ । चि॒त् । ते॒ । युज्य॑म् । व॒वृ॒धे॒ । शवः॑ । त॒तक्ष॑ । वज्र॑म् । अ॒भिभू॑तिऽओजसम् ॥

सायणभाष्यम्

हे इंद्र यानि ब्रह्माणि सोत्रशस्त्ररूपाणि मंत्रजातानि तव वर्धना वर्धयितृणि तानि त्वा त्वां न्यृषंति हि । नितरां प्राप्नुवंत्येव । तत्र दृष्टांतः । ऊर्मयो जलप्रवाहा ह्रदं न । यथा जलाशयं प्राप्नुवंति तद्वत् । त्वष्वा चित् स त्वष्वाच देवस्ते तव युज्यं योग्यं शवो बलं ववृधे । प्रावर्धयत् । आपि चाभिभूत्योजसं शत्रूणामभिभवितृणामोजसा बलेन युक्तं वज्रं ततक्ष । तीक्ष्णीचकार ॥ न्यृषंति । ऋषी गतौ । तौदादिकः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । हि चेति निघातप्रतिषेधः । ऊर्मयः । ऋ गतौ । ऋच्छंति गच्छंतीत्यूर्मयः । अर्तेरूच (उ ४-४४) इति मिप्रत्ययः । गुणे सत्यकारस्योकारादेशश्च । प्रत्ययस्वरः । वर्धना । वृधु वृद्धौ । वर्धत एभिरिति वर्धना । करणे ल्युट् । शेश्छंदसीति तेर्लोपः । ततक्ष । तक्षू त्वक्षू तनूकरणे । लिट णलि लित्स्वरेण प्रत्ययूत्पूर्व स्योदात्तत्वम् । पादादित्वान्निघाताभावः । अभिभूत्योजसम् । अभिभूयतेऽनेनेत्यभिभूति । करणे प्तन् । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । अभिभूत्योजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३