मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् ८

संहिता

ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः ।
अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा॑रयो दि॒व्या सूर्यं॑ दृ॒शे ॥

पदपाठः

ज॒घ॒न्वान् । ऊं॒ इति॑ । हरि॑ऽभिः । स॒म्भृ॒त॒क्र॒तो॒ इति॑ सम्भृतऽक्रतो । इन्द्र॑ । वृ॒त्रम् । मनु॑षे । गा॒तु॒ऽयन् । अ॒पः ।
अय॑च्छथाः । बा॒ह्वोः । वज्र॑म् । आ॒य॒सम् । अधा॑रयः । दि॒वि । आ । सूर्य॑म् । दृ॒शे ॥

सायणभाष्यम्

हे संभृतक्रतो संपादितकर्मन् संपादितप्रज्ञवेंद्र मनुषे जनायगातुयन् गातुं मार्गमिच्छन् । वृत्रं लोकानामावरकमसुरं हरिभिरश्वैर्युक्तस्त्वं जघन्वान् उ । हतवान् खलु । तदनंतरमपो वृष्ट्युदकानि प्रावर्तय इत्यध्याहारः । बाह्वोस्त्वदीययोर्हस्तयोरायसमयोमयं वज्रमयच्छथाः । आग्रहीः । आकारः समुच्चयार्थः । सूर्यं च दिवि द्युलोके दृशे द्रष्टुं सर्वेषामस्माकं दर्शनायाधारयः । स्थापयां चकृषे ॥ जघन्वान् । हंतेर्लिटः क्वसुः । विभाषा गमहनविदविशाम् (पा ७-२-६८) इतीडागमस्य विकल्पोक्तेरभावः । गातुयन् । गातुमिच्छसि । छंदसि परेच्छायामपीति क्यच् । का ३-१-८-२ । न छंदस्य पुत्रस्येति दीर्घप्रतिषेधः । क्यजंताच्छतर्यदुपदेशाल्लसार्वधातुकानुदात्तत्वे क्यच एव स्वरः शिष्यते । बाह्वोः । उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वं ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३