मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् १०

संहिता

द्यौश्चि॑द॒स्याम॑वाँ॒ अहे॑ः स्व॒नादयो॑यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते ।
वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे॑ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ॥

पदपाठः

द्यौः । चि॒त् । अ॒स्य॒ । अम॑ऽवान् । अहेः॑ । स्व॒नात् । अयो॑यवीत् । भि॒यसा॑ । वज्रः॑ । इ॒न्द्र॒ । ते॒ ।
वृ॒त्रस्य॑ । यत् । ब॒द्ब॒धा॒नस्य॑ । रो॒द॒सी॒ इति॑ । मदे॑ । सु॒तस्य॑ । शव॑सा । अभि॑नत् । शिरः॑ ॥

सायणभाष्यम्

अमवान्बलवान्द्यौश्चित् द्युलोकोऽप्यस्याहेर्वृत्रस्य स्वनाच्छब्दाद्भियसा भयेनायोयवीत् । अत्यर्थं पृथग्छूत् आसीत् । अकंपतेत्यर्थः । हे इंद्र ते तव सुतस्याभिषवादिभिः संस्कृतस्य सोमस्य पानेन मदे हर्षे जाते सति त्वदीयो वज्रो रोदसी द्यावापृथिव्यौ बद्बधानस्य बाधनशीलस्य वृत्रस्य शिरो यद्यदा शवसा बलेनाभिनत् । अच्छिनत् । तदानीं द्युलोको भयराहित्येन निश्चलो बभूवेति शेषः ॥ अयोयवीत् । यु मिश्रणामिश्रणयोः । अस्माद्यङ् लुगंताल्लङि यङो वा (पा ७-३-९४) इत्यपृक्तप्रत्ययस्येडागमः । अडागम उदात्तः । बद्बधानस्य । बाधृ विलोडने । ताच्छीलके चानशि बहुलं छंदसीति शपः श्लुः । हलादिशेषाभावो धातो र्ह्रस्वत्वं च छांदसत्वात् । चित इत्यंतोदात्तत्वं ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३