मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् ११

संहिता

यदिन्न्वि॑न्द्र पृथि॒वी दश॑भुजि॒रहा॑नि॒ विश्वा॑ त॒तन॑न्त कृ॒ष्टयः॑ ।
अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा॑ भुवत् ॥

पदपाठः

यत् । इत् । नु । इ॒न्द्र॒ । पृ॒थि॒वी । दश॑ऽभुजिः । अहा॑नि । विश्वा॑ । त॒तन॑न्त । कृ॒ष्टयः॑ ।
अत्र॑ । अह॑ । ते॒ । म॒घ॒ऽव॒न् । विऽश्रु॑तम् । सहः॑ । द्याम् । अनु॑ । शव॑सा । ब॒र्हणा॑ । भु॒व॒त् ॥

सायणभाष्यम्

यदिन्नु यदा खलु पृथिवी दशभुजिर्दशगुणिता भवेत् । यदि वा कृष्टयः सर्वे मनुष्या विश्वा सर्वाण्यहानि ततनंत । विस्तारयेयुः । हे मघवन् । धनवन्निंद्र अत्राह अत्रैव पूर्वोक्तेष्वेव देशकालकर्तृकेषु ते त्वदीयं सहो वृत्रवधादिकारणं बलं विश्रुतं विख्यातं प्रसिद्धम् । शवसा त्वदीयेन बलेन कृता बर्हणा वृत्रादेर्वधरूपा क्रिया द्यामनु भुवत् । अनुभवति । यथा द्यौर्महती तथा त्वत्कृतं वृत्रादेर्हिंसनमपि महदिति भावः ॥ ततनंत । तनु विस्तारे । स्वरितेत्त्वादात्मने पदम् । लिङर्थे लङ्युप्रत्यये प्राप्ते व्यत्ययेन शप् । छांदसो द्विर्भावः । यद्वा । बहुलं छंदसीत्युप्रत्ययस्य श्लौ सति पुनरपि व्यत्ययेन शप् । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यद्वृत्तयोगादनिघातः । विश्रुतम् । श्रु श्रवणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । बर्हणा वर्ह वल् ह परिभाषणहिंसादानेषु । अस्मादौणादिकः क्युप्रत्ययः । बवयोरभेद इति वकारस्य बत्वम् । प्रत्ययस्वरः । निबर्हयतीति वधकर्मसु पठितं च । भुवत् । भू सत्तायाम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेध उवङादेशः ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४