मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५२, ऋक् १२

संहिता

त्वम॒स्य पा॒रे रज॑सो॒ व्यो॑मन॒ः स्वभू॑त्योजा॒ अव॑से धृषन्मनः ।
च॒कृ॒षे भूमिं॑ प्रति॒मान॒मोज॑सो॒ऽपः स्व॑ः परि॒भूरे॒ष्या दिव॑म् ॥

पदपाठः

त्वम् । अ॒स्य । पा॒रे । रज॑सः । विऽओ॑मनः । स्वभू॑तिऽओजाः । अव॑से । धृ॒ष॒त्ऽम॒नः॒ ।
च॒कृ॒षे । भूमि॑म् । प्र॒ति॒ऽमान॑म् । ओज॑सः । अ॒पः । स्व१॒॑रिति॑ स्वः॑ । प॒रि॒ऽभूः । ए॒षि॒ । आ । दिव॑म् ॥

सायणभाष्यम्

हे धृषन्मनः शत्रूणां धर्षकमनोयुक्तेंद्र । अस्यास्माभिः परिदृश्यमानस्य व्योमनो व्याप्तस्यांतरिक्षस्य रजसो लोकस्य पार उपरिप्रदेशे वर्तमानः स्वभूत्योजाः स्वभूतबलस्त्वमवसेऽस्मद्रक्षणार्थं भूमिं भूलोकं चकृषे कृतवानसि । किंच ओजसो बलवतां बलस्य प्रतिमानं प्रतिनिधिरछूः । तथा स्वः सुष्ठ्वरणीयं गंतव्यम् । आप इत्यंतरिक्षनाम । अपोंतरिक्षलोकं आ दिवं द्युलोकं च परिभूः परिग्रहीता । परिपूर्वो भवतिः परिग्रहणार्थः । एषि प्राप्नोषि ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । व्योमनः । अवतिर्गत्यर्थः । अव रक्षणगतिकान्तीत्यभिधानात् । विशेषेण गच्छति व्याप्नोतीति व्योम । यद्वा । वृष्टिप्रदानेन विशेषेण प्राणिनोऽवति रक्षतीति व्योम । अन्येभ्योऽपि दृश्यंत इति मनिन् । ज्वरत्वरेत्यादिनोपधाया वकारस्य चोट् । गुणः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । भावे मनिन् । विविधमोम रक्षणं यस्मिन् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यणादेश उदात्तस्वरितयोर्यण इति परस्यानुदात्तस्य स्वरितत्वम् । स्वः । सुपूर्वादर्तेरन्येभ्योऽपि दृश्यंत इति विच् । अव्ययादाप्सुपः (पा २-४-८२) इति सुपो लुक् । न्यङ् स्वरौ स्वरितौ (फि ४-६) इति स्वरितत्वं ॥ १२ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४