मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् १

संहिता

न्यू॒३॒॑ षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा॑य॒ सद॑ने वि॒वस्व॑तः ।
नू चि॒द्धि रत्नं॑ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ॥

पदपाठः

नि । ऊं॒ इति॑ । सु । वाच॑म् । प्र । म॒हे । भ॒रा॒म॒हे॒ । गिरः॑ । इन्द्रा॑य । सद॑ने । वि॒वस्व॑तः ।
नु । चि॒त् । हि । रत्न॑म् । स॒स॒ताम्ऽइ॑व । अवि॑दत् । न । दुः॒ऽस्तु॒तिः । द्र॒वि॒णः॒ऽदेषु॑ । श॒स्य॒ते॒ ॥

सायणभाष्यम्

न्यू ष्वित्येकादशर्चं तृतीयं सूक्तम् । दशम्येकादश्यौ त्रिष्टुभौ । शिष्वा नव जगत्यः । सव्य ऋषिः । इंद्रो देवता । तथा चानुक्रांतं - न्यू ष्वेकादशांत्ये तिष्टुभाविति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिनः शस्त्र एतत्सूक्तम् । तथा चासूत्रयदाचार्यः । न्यू षु वाचमप्सु धूतस्य हरिवः पिबेहेति याज्या । आश्व ६-४ इति ॥

महे महत इंद्राय सु वाचं शोभनां स्तुतिं नि प्र भरामहे । नितरा प्रयुंज्महे । उ इति पादपूरणः । यतो विवस्वतः परिचरतो यजमानस्य सदने यज्ञगृह इंद्राय गिरः स्तुतयः क्रियंते । हि यस्मात्स इंद्रो नू चित् क्षिप्रमेव रत्नं रमणीयमसुराणां धनमविदत् विंदति । तत्र दृष्टांतः । ससतामिव । यथा स्वपतां पुरुषाणां धनं चोरः क्षिप्रं लभते तद्वत् । अतोऽस्मभ्यं धनं दातुं शक्त इति भावः । द्रविणोदेषु धनस्य दातृषु पुरुषेषु दुष्टुतिरसमीचीना स्तुतिर्न शस्यते नाभिधीयते । अतः सुवाचं प्र भरामह इति पूर्वेण संबंधः ॥ न्यू षु इत्यस्योदात्तस्वरितयोर्यण इति स्वरितत्वम् । तत्रोदात्तपरत्वात्संहितायां कंप्यते । इकः सुञि (पा ६-३-१३४) इति दीर्घत्वम् । सुञ इति षत्वम् । महे । मह पूजायामित्यस्मात् क्विप्चेति क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । यद्वा । महच्छब्दस्याच्छब्दलोपश्छांदसः । नू चित् । ऋषि तुनुघेत्यादिना । दीर्घः । ससतामिव । षस स्वप्ने । अस्माच्छत्रंतादंतोदात्तात्परस्या विभक्तेः शशुरनुमः इत्युदात्तत्वम् । इवेन विभक्त्यलोपः । पूर्वपदप्रकृतिस्वरत्वं च । पा २-१-४-२ । इति समासः । अविदत् । विद्लृ लाभे । छंदसि लुङ् लङ् लिट इति वर्तमाने लुङि पुषुदिद्युतादीति च्लेरङादेशः । अडागम उदात्तः । हि चेचि निघातप्रतिषेधः । द्रविणोदेषु । द्रविणानि धनानि ददातीति द्रविणोदाः । द्रु गतावित्यस्मात् द्रुदक्षिभ्यामिनन् (उ २-५०) इतीनन्प्रत्ययांतो द्रविणशब्दः । तस्मिन् कर्मण्युपपद आतोऽनुपसर्गे क इति कः । पूर्वपदस्य सुगागमश्छांदसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । शस्यते । शस्सु स्तुतौ । यक्यनिदितामिति नलोपः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५