मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् ४

संहिता

ए॒भिर्द्युभि॑ः सु॒मना॑ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना॑ ।
इन्द्रे॑ण॒ दस्युं॑ द॒रय॑न्त॒ इन्दु॑भिर्यु॒तद्वे॑षस॒ः समि॒षा र॑भेमहि ॥

पदपाठः

ए॒भिः । द्युऽभिः॑ । सु॒ऽमनाः॑ । ए॒भिः । इन्दु॑ऽभिः । नि॒ऽरु॒न्धा॒नः । अम॑तिम् । गोभिः॑ । अ॒श्विना॑ ।
इन्द्रे॑ण । दस्यु॑म् । द॒रय॑न्तः । इन्दु॑ऽभिः । यु॒तऽद्वे॑षसः । सम् । इ॒षा । र॒भे॒म॒हि॒ ॥

सायणभाष्यम्

हे इंद्र एभिरस्माभिर्दत्तैर्द्युभिर्दीप्तैश्चरुपुरोडाशादिभिः एभिरिंदुभिः पुरोवर्तिभिस्तुभ्यं दत्तैः सोमैश्च प्रीतस्त्वमस्माकममतिं दारिद्र्यं गोभिस्त्वया दत्तैः पशुभिरश्विनाश्वयुक्तेन धनेन च निरुंधानो निवर्तयन् सुमनाः शोभनमना भव । वयमिंदुभिरस्माभिर्दत्तैः सोमैः प्रीतेनेंद्रेण दस्युमुपक्षपयितारं शत्रुं दरयंतो हिंसंतोऽत एव युतद्वेषसः पृथग्भूतशत्रुका भूत्वेषेंद्रदत्तेनान्नेन सं रभेमहि । संरब्धा भवेम । संगच्छेमहीत्यर्थः ॥ सुमनाः । शोभनं मनो यस्य । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । निरुंधानः । रुधिर् आवरणे । स्वरितेत्त्वादात्मनेपदम् । श्नसोरल्लोप इत्यकारलोपः । चित इत्यंतोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । अमतिम् । मंतव्या मतिरैश्वर्यम् । न मतिरमतिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । न लोकाव्ययेति षष्ठीप्रतिषेधः । अश्विना । अश्वोऽस्यास्तीत्यश्वि धनम् । मत्वर्थीय इनिः ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५