मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् ६

संहिता

ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृत्र॒हत्ये॑षु सत्पते ।
यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा॑णि ब॒र्हयः॑ ॥

पदपाठः

ते । त्वा॒ । मदाः॑ । अ॒म॒द॒न् । तानि॑ । वृष्ण्या॑ । ते । सोमा॑सः । वृ॒त्र॒ऽहत्ये॑षु । स॒त्ऽप॒ते॒ ।
यत् । का॒रवे॑ । दश॑ । वृ॒त्राणि॑ । अ॒प्र॒ति । ब॒र्हिष्म॑ते । नि । स॒हस्रा॑णि । ब॒र्हयः॑ ॥

सायणभाष्यम्

हे सत्पते सतां पालयितरिंद्र वृत्रहत्येषु वृत्रहननेषु निमित्तभूतेषु सत्सु ते पूर्वोक्ता मदा मादका मरुतस्त्वा त्वाममदन् । अमदर्य । हर्षं प्रापयन् । तानि पूर्वोक्तानि वृष्ण्या वृष्णः सेचनसमर्थस्य तव संबंधीनि चरुपुरोडाशादीनि हवींषि त्वाममदन् । ते सोमासः प्रसिद्धाः सोमाश्च श्वाममदन् । यद्यदा कारवे स्तुतिकर्त्रे बर्हिष्मते यज्ञवते यजमानाय दश सहस्राण्यपरिमितानि वृत्राण्यावरकाण्युपद्रवजातान्यप्रति शत्रुभिरप्रगतिगतस्त्वं निबर्हयः न्यवधीः । तदानीमिति पूर्वेण संबंधः ॥ वृष्ण्या । शेश्छंदसि बहुलमिति शेर्लोपः । बर्हयः । बर्हयतिर्हिंसाकर्मा । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६