मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् ७

संहिता

यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा ।
नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥

पदपाठः

यु॒धा । युध॑म् । उप॑ । घ॒ । इत् । ए॒षि॒ । धृ॒ष्णु॒ऽया । पु॒रा । पुर॑म् । सम् । इ॒दम् । हं॒सि॒ । ओज॑सा ।
नम्या॑ । यत् । इ॒न्द्र॒ । सख्या॑ । प॒रा॒ऽवति॑ । नि॒ऽब॒र्हयः॑ । नमु॑चिम् । नाम॑ । मा॒यिन॑म् ॥

सायणभाष्यम्

हे इंद्र धृष्णुया शत्रूणां धर्षकस्त्वं युधा युद्धेन संबद्धं युद्धं युद्धमुप घेदेषि उपैव गच्छसि । सर्वदा युद्धशीलो भवसीत्यर्थः । घ इति पादपूरणः । शत्रूणामसुराणां पुरा पुरेण नगरेण सहेदं पुरोवर्ति पुरं शत्रुनगरमोजसा बलेन सं हंसि । सम्यग्विनाशयसि । शत्रूणां पुराण्यभैत्सीरित्यर्थः । हे इंद्र त्वं नम्या शत्रुषु नमनशीलेन सख्या सहायभूतेन वज्रेन परावति दूरदेशे नमुचिं नामानया संज्ञया प्रसिद्धं मायिनं मायाविनमसुरं यद्यस्मान्नि बर्हयः नितरामहिंसीः । आतस्त्वमेवं स्तूयस इत्यर्थः ॥ युधा । युध संप्रहारे । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । एषि । इण् गतौ । अदादित्वाच्छपोलुक् । धृष्णुया । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुरिति क्नुप्रत्ययः । कित्त्वाद्गुणाभावः । सुपां सुलुगिति सोर्याजादेशः । चित इत्यंतोदात्तत्वम् । पुरा । पृ पालनपूरणयोः । पूरयति राज्ञामभिमतानीति । क्विप्चेति क्विप् । उदोष्ठ्यपूर्वस्येत्युत्वम् । सावेकाच इति विभक्तिरुदात्ता । हंसि । हंतेर्लट सिप्यदादित्वाच्भपो लुकि नश्चापदांतस्य झलि । पा सू ८-३-२४ । इत्यनुस्वारः । नम्या । णमु प्रह्वत्वे । औणादिक इन्प्रत्ययः । सुपां सुलुगिति तृतीयाया ड्यादेशः । टलोपः । सख्या । शेषो घ्यसखि । पा सू १-४-७ । इति घिसंज्ञाप्रतिषेधान्नाभावाभावे यणादेशः । नमुचिम् । इंद्रेण सह युद्धं न मुंचतीति नमुचिः । औणादिकः । क्विप्रत्ययः नभ्राण्नपादित्यादिना नञः प्रकृतिभावः । नञ् न गतिर्न च कारकमिति कृदुत्तरपदप्रकृतिस्वरत्वाभावेऽव्यय पूर्वपदप्रकृतिस्वरत्वम् । मायिनम् । मायाशब्दस्य व्रीह्यादिषु पाठात् मत्वर्थीय इनिः ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६