मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् ८

संहिता

त्वं कर॑ञ्जमु॒त प॒र्णयं॑ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी ।
त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो॑ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ॥

पदपाठः

त्वम् । कर॑ञ्जम् । उ॒त । प॒र्णय॑म् । व॒धीः॒ । तेजि॑ष्ठया । अ॒ति॒थि॒ऽग्वस्य॑ । व॒र्त॒नी ।
त्वम् । श॒ता । वङ्गृ॑दस्य । अ॒भि॒न॒त् । पुरः॑ । अ॒न॒नु॒ऽदः । परि॑ऽसूताः । ऋ॒जिश्व॑ना ॥

सायणभाष्यम्

हे इंद्र त्वं करंजमेतत्संज्ञ कमसुरमुतापि च पर्णयमेतन्नामानमसुरं चातिथिग्वस्यैतत्संज्ञस्य राज्ञः प्रयोजनाय तेजिष्ठयातिशयेन तेजस्विन्या वर्तनी वर्तन्या शत्रुप्रेरणकुशलया शक्त्या वधीः । हतवानसि । तथाननुदः । अनु पश्चाद्यति खंडयतीत्यनुदोऽनुचरः । तादृशोऽनुचररहित एक एव त्वमृजिश्वनैतत्संज्ञकेन राज्ञा परिषूताः परितोऽवष्टब्धाः शता शतानि शतसंख्याका वंगृदस्यैतत्संज्ञ कस्यासुरस्य पुरः पुराणि नगराण्यभिनत् । बिभिदिषे ॥ वधीः । हंतेर्लुङि सिपि लुङि चेति वधादेशः । तस्यादंतत्वाद्वृद्ध्यभावः (पा ७-३-३५) अत एवानेकाच्त्वादिट् प्रतिषेधाभावः (पा ७-२-१०) इट ईटीति सिचो लोपः । तेजिष्ठया । तेजस् शब्दादस्मायामेधेति मत्वर्थीयो विनिः । तस्मादातिशायनिक इष्ठनि विन्मतोर्लुगिति विनो लुक् । टेरिति टिलोपः । नित्त्वादाद्युदात्तत्वम् । वर्तनी । वृत्यते प्रेर्यतेऽनयेति वर्तनी । करणे ल्युट् । टित्त्वात् ङीप् (पा ४-१-१५) सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनांतोदात्तत्वम् । अभिनत् । भिदिर् विदारणे । लङि सिपि रुधादित्वात् श्नम् । इतश्चेतीकारलोपः । हल्ङ्याब्भ्य इति सकार लोपः अननुदः । दो अवखंडने । आदेच इत्वम् । आतश्चोपसर्ग इति कप्रत्ययः । नास्त्यनुदोऽस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । संहितायां दीर्घश्छांदसः । परिषूताः । षू प्रेरणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६