मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् ९

संहिता

त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा॑ब॒न्धुना॑ सु॒श्रव॑सोपज॒ग्मुषः॑ ।
ष॒ष्टिं स॒हस्रा॑ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या॑ दु॒ष्पदा॑वृणक् ॥

पदपाठः

त्वम् । ए॒तान् । ज॒न॒ऽराज्ञः॑ । द्विः । दश॑ । अ॒ब॒न्धुना॑ । सु॒ऽश्रव॑सा । उ॒प॒ऽज॒ग्मुषः॑ ।
ष॒ष्टिम् । स॒हस्रा॑ । न॒व॒तिम् । नव॑ । श्रु॒तः । नि । च॒क्रेण॑ । रथ्या॑ । दुः॒ऽपदा॑ । अ॒वृ॒ण॒क् ॥

सायणभाष्यम्

हे इंद्र श्रुतो विश्रुतः प्रख्यातस्त्वं द्विर्दश विंशतिसंख्याकानबंधुना बंधुरहितेन सहायरहितेन सुश्रवसैतत्संज्ञकेन राज्ञा युद्धार्थमुपजग्मुष उपगतवत एतानेवंविधान् जनराज्ञो जनपदानामधिपतीन् । षष्टिमित्यादिना तेषां राज्ञा मनुचरसंख्योच्यते । षष्टिं सहस्रां सहस्राणां षष्टिं नवतिं नव नवसंख्योत्तरां नवतिम् । तान् राज्ञ ईदृक्संख्याकाननुचरांश्च रथ्या रथसंबंधिना दुष्पदा दुष्ट्रपदनेन । शत्रुभिः प्राप्तुमशक्येनेत्यर्थः । ईदृशेन चक्रेण न्यवृणक् न्यवर्जयः । त्वां स्तुवतः सुश्रवसो जयार्थं त्वमागत्य तदीयान् शत्रूनजैषीरित्यर्थः ॥ जनराज्ञः समासांतविधेरनित्यत्वाट्वच् प्रत्ययाभावः (पा ५-४-९१) परि ८४ । राजन् शब्दो राजृ दीप्तावित्यस्मात्कनिन्प्रत्ययांत आद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । अबंधुना । नञ् सुभ्यामित्यत्तरपदांतोदात्तत्वम् । सुश्रवसा । शोभनं श्रवोऽन्नं यस्य । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । उपजग्मुषः । गमेर्लिटः क्वसुः । शसि भंसज्ञायां वसोः संप्रसारणमिति संप्रसारणम् । परपूर्वत्वम् । गमहनमित्यादिनोपधालोपः । शासिवसिघसीनां चेति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन क्वसोरेव स्वरः शिष्यते । रथ्या । रथस्येदं रथ्यम् । रथाद्यत् (पा ४-३-१२१) इति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । सुपां सुलुगिति विभक्तेराकारः । दुष्पदा । पद गतौ ईषद्दु सुष्विति खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । पूर्ववद्विभक्तेराकारः । अवृणक् । वृजी वर्जनॆ । रौधादिकः लङि मध्यमैकवचने हल्ङ्याब्भ्य इति सिपो लोपः । चोःकुरिति कुत्वं ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६