मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५३, ऋक् १०

संहिता

त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् ।
त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने॑ अरन्धनायः ॥

पदपाठः

त्वम् । आ॒वि॒थ॒ । सु॒ऽश्रव॑सम् । तव॑ । ऊ॒तिऽभिः॑ । तव॑ । त्राम॑ऽभिः । इ॒न्द्र॒ । तुर्व॑याणम् ।
त्वम् । अ॒स्मै॒ । कुत्स॑म् । अ॒ति॒थि॒ऽग्वम् । आ॒युम् । म॒हे । राज्ञे॑ । यूने॑ । अ॒र॒न्ध॒ना॒यः॒ ॥

सायणभाष्यम्

हे इंद्र त्वं तवोतिभिस्त्वदीयैः पालनैः सुश्रवसं पूर्वोक्तं राजानमाविथ ररक्षिथ । तथा तूर्वयाणमेतन्नामानं राजानं तव त्रामभिस्त्वदीयैस्त्रायकैः । पालकैर्बलैराविथेति शेषः । किंच त्वं महे महते यूने तरुणायास्मै सुश्रवसे राज्ञे कुत्सादींस्त्रीन्राज्ञोरंधनायः । वशमनयः । रध्यतिर्वशगमने (नि ६-२२) इति यास्कः ॥ त्रामभिः । त्रैङ् पालने । आदेच इत्यात्वम् । आतो मनि न्निति मनिन् । नित्व्वादाद्युदात्तत्वम् । अरंधनायः । रंधनं वशीकरणं करोति रंधनयति । तत्करोति । सू ३-१-२६-५ । इति णिच् । इष्ठवण्णौ प्रातिपदिकस्य । सू ६-४-१५५-१ । इतीष्ठवद्भावाट्वलोपः । लङि सिपि दीर्घश्छांदसः ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६