मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् १

संहिता

मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्त॒ः शव॑सः परी॒णशे॑ ।
अक्र॑न्दयो न॒द्यो॒३॒॑ रोरु॑व॒द्वना॑ क॒था न क्षो॒णीर्भि॒यसा॒ समा॑रत ॥

पदपाठः

मा । नः॒ । अ॒स्मिन् । म॒घ॒ऽव॒न् । पृ॒त्ऽसु । अंह॑सि । न॒हि । ते॒ । अन्तः॑ । शव॑सः । प॒रि॒ऽनशे॑ ।
अक्र॑न्दयः । न॒द्यः॑ । रोरु॑वत् । वना॑ । क॒था । न । क्षो॒णीः । भि॒यसा॑ । सम् । आ॒र॒त॒ ॥

सायणभाष्यम्

मा न इति एकादशर्चं चर्तुर्थं सूक्तम् । षष्ठ्यष्टमीनवम्येकादश्यस्त्रिष्टुभः । शिष्वाः सप्त जगत्यः । सव्य ऋषिः । इंद्रो देवता । तथा चानुक्रांतम् । मा नोऽंत्या त्रिष्वुप् षष्ठ्यष्टमी नवमी चेति । अतिरात्रे प्रथमे पर्यायेऽच्छावाकशस्त्र इदं सूक्तम् । तथा च सूत्रितम् । मानो अस्मिन्मघवन्निंद्र पिब तुभ्यं सुतो मदायेति याज्या (आ ६-४) इति ॥

हे मघवन् धनवन्निंद्र अस्मिन् परिदृश्यमानेंऽहसि पापे पृत्सु पृतनासु पापफलभूतेषु संग्रामेषु च नोऽस्मान्मा प्रक्षैप्सीरिति शेषः । यस्मात्ते तव शवसो बलस्यांतोऽवसानं परीणशे परितो व्याप्तुं न हि शक्यते । सर्वोऽपि जनस्त्वदीयं बलमतिक्रमितुं न शक्नोतीत्यर्थः । तस्मात्त्वमंतरक्षे वर्तमानो रोरुवत् अत्यर्थं शब्दं कुर्वन् नद्योः नदीर्वना तत्संबंधीन्युदकानि चाक्रंदयः ॥ शब्दयसि । क्षोणीः क्षोण्यः । क्षोणीति पृथिवीनाम । तदुपलक्षिशास्त्रयो लोका भियसा त्वद्भयेन कथा कथं न समारत । न संगच्छंते । त्वदीयं बलमवलोक्य त्रयोऽपि लोका बिभ्यतीति भावः ॥ पृत्सु । पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् । पा ३-१-६३-१ । इति पृतनाशब्दस्य पृद्भावः । परीणशे । नशतिर्व्याप्तिकर्मा । कृत्यार्थे तवृकेनिति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । नद्यः । द्वितीयार्थे प्रथमा । रोरुवत् । रु शब्दे । यङ्लुगंचाल्लटः शतृ । आदादिवच्चेति वचनाच्छपो लुक् । शतुर्ङित्त्वाद्गुणाभाव उवङादेशः । नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । कथा । था हेतौ च च्छंदसीति किं शब्दात्प्रकारवचने थाप्रत्ययः । तस्य विभक्तिसंज्ञायां किमः कः (पा ७-२-१०३) इति कादेशः । आरत । ऋ गतौ । समो गम्यृच्भीत्यात्मनेपदम् । छांदसे वर्तमाने लङ्यदादित्वाच्छपो लुक् । झस्यादादेशः । आडागमो वृद्धिश्च ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७