मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ४

संहिता

त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना॑ धृष॒ता शम्ब॑रं भिनत् ।
यन्मा॒यिनो॑ व्र॒न्दिनो॑ म॒न्दिना॑ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं॑ पृत॒न्यसि॑ ॥

पदपाठः

त्वम् । दि॒वः । बृ॒ह॒तः । सानु॑ । को॒प॒यः॒ । अव॑ । त्मना॑ । धृ॒ष॒ता । शम्ब॑रम् । भि॒न॒त् ।
यत् । मा॒यिनः॑ । व्र॒न्दिनः॑ । म॒न्दिना॑ । धृ॒षत् । शि॒ताम् । गभ॑स्तिम् । अ॒शनि॑म् । पृ॒त॒न्यसि॑ ॥

सायणभाष्यम्

हे इंद्र त्वं बृहतो मरुतो दिवो द्युलोकस्य सानु समुच्छ्रितमुपरिप्रदेशं कोपयः । अकंपयः । धृषता शत्रूणां धर्षयित्रात्मनात्मना स्वयमेव शंबरमेतत्संज्ञमसुरमवाभिनत् । अवधीः । यद्यदा व्रंदिनः शत्रून् जेतुं मृदुभावं प्राप्तन् । यद्वा । वृंदं समूहः । असुरसमूहवतः । मायिनो मायाविनोऽसुरान्मंदिना हृष्टेन धृषत् धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं शितां तीक्ष्लीकृतां गभस्तिं हस्तेन गृहीताम् । यद्वा । गभस्तिरिति रश्मिनाम । तद्वतीमशनिं वज्रं पृतन्यसि । तानसुरान् जेतुं पृतनारूपेणेच्छसि । तान्प्रति प्रेरयसीत्यर्थः । तदानीं बृहतो दिवः सानु कोपय इति पूर्वेणान्वयः ॥ कोपयः । कुप कोपे । ण्यंताल्लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । त्मना । मंत्रेष्वाङ्यादेरात्मन इत्याकारलोपः । धृषत् । सुपां सुलुगिति तृतीयाया लुक् । शिसाम् । शो तनूकरणे । निष्ठायां शाच्छोरन्यतरस्याम् (पा ७-४-४१) इतीकारादेशः । पृतन्यसि । पृतनाशब्दात्सुप आत्मनः क्यच् । कव्यध्वरपृतस्येंत्यलोपः । प्रत्यय स्वरः ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७