मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ६

संहिता

त्वमा॑विथ॒ नर्यं॑ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं॑ व॒य्यं॑ शतक्रतो ।
त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो॑ नव॒तिं द॑म्भयो॒ नव॑ ॥

पदपाठः

त्वम् । आ॒वि॒थ॒ । नर्य॑म् । तु॒र्वश॑म् । यदु॑म् । त्वम् । तु॒र्वीति॑म् । व॒य्य॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
त्वम् । रथ॑म् । एत॑शम् । कृत्व्ये॑ । धने॑ । त्वम् । पुरः॑ । न॒व॒तिम् । द॒म्भ॒यः॒ । नव॑ ॥

सायणभाष्यम्

हे इंद्र त्वं नर्यादींस्त्रीन्राज्ञ आविथ ररक्षिथ । तथा हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा त्वं वय्यं वय्यकुलजं तुर्वीतिनामानं राजानमाविथेत्येव । अपि च त्वं रथं रंहणस्वभावमेतत्संज्ञमृषिमेतशमेतत्संज्ञकं धने धननिमितिते संग्रामे कृत्व्ये कर्तव्ये सत्याविथेति शेषः । यद्वा । पूर्वोक्तानां राज्ञां रथम् । एतशः इत्यश्वनाम । एतशमश्चं च ररक्षिथेति योज्यम् । तथा त्वं शंबरस्य नवतिं नव नवोत्तरनवतिसंख्याकाः पुरः पुराणि दंभयः व्यनीनशः ॥ एतशं एति गच्छतीत्येतशः । इण् गतौ । इणस्तशंतशसुनौ । उ सू ३-१४९ इति ततन्प्रत्ययः । गुणः । कृत्व्ये । कर्तव्य इत्यस्य शब्दस्य वर्णविकारः । पृषोदरादित्वात् ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८