मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ९

संहिता

तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ॑न्द्र॒पाना॑ः ।
व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो॑ वसु॒देया॑य कृष्व ॥

पदपाठः

तुभ्य॑ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि॑ऽदुग्धाः । च॒मू॒ऽसदः॑ । च॒म॒साः । इ॒न्द्र॒ऽपानाः॑ ।
वि । अ॒श्नु॒हि॒ । त॒र्पय॑ । काम॑म् । ए॒षा॒म् । अथ॑ । मनः॑ । व॒सु॒ऽदेया॑य । कृ॒ष्व॒ ॥

सायणभाष्यम्

हे इंद्र तुभ्येत् तुभ्यमेव चमसाः । चम्यंते भक्ष्यंत इति चमसाः सोमाः । एते सोमास्त्वदर्थं संपादिताः । कीदृश इत्याह । बहुलाः प्रभूता अद्रिदुग्धा अद्रिभिर्ग्रावभिरभिषुताश्चमूषदश्चमूषु चमसेष्ववस्थिता इंद्रपाना इंद्रस्य पानेन सुखकारः । अतस्त्वं तान्व्यश्नुहि । व्याप्नु हि । व्याप्य चैषां त्वदीयानामिंद्रियाणां काममभिलाषं तैस्तर्पय पूरयेति यावत् । अथानंतरं वसुदेयायास्मभ्यमभिमतधनप्रदानाय त्वदीयं मनः कृष्व कुरुष्व ॥ तुभ्य । छांदसो मलोपः । अद्रिदुग्धाः । दुहेः कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । चमूषदः । चमु अदने । चमंत्यनेनेति चमूः । कृषिचमितानीत्यादिना । उ सू १-८१ । औणादिकः । ऊप्रत्ययः । चमूषु सीदंतीति चमूषदः । सत्सूद्विषेत्यादिना क्विप् । पूर्वपदात् । पा सू ८-३-१०६ । इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्रपानाः । कर्मणि च येन संस्पर्शात् । पा सू ३-३-११६ । इति पिबतेः कर्मणि ल्युट् । अश्नुहि । व्यत्ययेन परस्मैपदम् । वसुदेयाय । डुदाञ् दाने । अस्मादचो यदिति भावे यत् । ईद्यति (पा ६-४-६५) इतीकारादेशः । गुणः । यतोऽनाव इत्याद्युदात्तत्वम् । कुृदुत्तरपदप्रकृतिस्वरत्वम् । कृष्व । डुकृङ् करणे । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८