मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ११

संहिता

स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि॑न्द्र॒ तव्य॑म् ।
रक्षा॑ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑ः ॥

पदपाठः

सः । शेऽवृ॑धम् । अधि॑ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति॑ । महि॑ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य॑म् ।
रक्ष॑ । च॒ । नः॒ । म॒घोनः॑ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्यै । इ॒षे । धाः॒ ॥

सायणभाष्यम्

हे इंद्र स त्वमस्मे अस्मासु द्युम्नं यशोऽधि धाः । अधिनिधेहि । कीदृशमित्याह । शेवृधम् । शं शमनम् । रोगाणां शमने सति यद्वर्धते तादृशम् । तथा महि महत् जनाषाट् शत्रुजनानामभिभवितृ तव्यं प्रवृद्धं क्षत्रं बलं चाधि दा इति शेषः । किंच हे इंद्र नोऽस्मान्मघोनो धनवतः कृत्वा रक्ष । पालय । सूरीन् विदुषोऽन्यासपि पाहि । पालय । तथा राये धनाय च स्वपत्यै शोभनपुत्रयुक्तायेषेऽन्नाय च नोऽस्मान्धाः । धेहि । स्थापय ॥ धाः । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लुङि गातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अस्मे । सुपां सुलुगित्यस्मच्छब्दात्सप्तम्याः शेआदेशः । जनाषाट् । जनान् सहस इति जनाषाट् । छंदसि सहः (पा ३-२-६३) इति ण्विः । अत उपधाया इति वृद्धिः । सहेः साडः सः (पा ८-३-५६) इति षत्वम् । अन्येषामपि दृश्यत इति पूर्वपददीर्घः । तव्यम् । तवतिर्वृद्ध्यर्थः । सौत्रो धातु । अचो यदिति यत् । गुणे धातोस्तन्निमित्तस्यैव (पा ६-१-८०) इत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । रक्ष रक्ष पालने । शपः पित्त्वादनुदात्तत्वं धातुस्वरः । द्व्यचोऽतस्तिङ इति दीर्घत्वम् । मघोनः । श्वयुवमघोनामतद्धित इति शसि संप्रसारणं पाहि । अदादित्वाच्छपो लुक् । हेरपित्त्वात्तस्यैव स्वरः शिष्यते । मघोन इत्यस्य वाक्यांतरगतत्वान्निघाताभावः । स्वपत्यै । शोभनान्यपत्यानि यस्याः सा तथोक्ता । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । जसादिषु च्छंदसि वावचनमिति याडापः (पा ७-३-११३) इति याडागमाभावे वृद्धिरेचि (पा ६-१-८८) इति वृद्धिः ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८