मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् १

संहिता

दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥

पदपाठः

दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थे॒ । इन्द्र॑म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति॑ ।
भी॒मः । तुवि॑ष्मान् । च॒र्ष॒णिऽभ्यः॑ । आ॒ऽत॒पः । शिशी॑ते । वज्र॑म् । तेज॑से । न । वंस॑गः ॥

सायणभाष्यम्

दिवश्चिदस्येत्यष्टर्चं पंचमं सूक्तं सव्यस्यार्षमैंद्रं जागतम् । तथा चानुक्रांतम् । दिवश्चिदष्वौजागतं हीति । हीत्यभिधानात्तुह्यादिपरिभाषयोत्तरे द्वे च सूक्ते जागते ॥ अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्र इदं सूक्तम् । सूत्रितं च । दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति च (आ ६-४) इति । विषुवति निष्केवल्येऽप्येतत्सूक्तम् । सूत्रितं च । शंसेदेवोत्तराणि षट् दिवश्चिदस्य आ । ८-६ । इति समूळ्हस्य दशरात्रस्य द्वितीये छंदोमेऽपि निष्केवल्य एतत्सूत्रितम् । त्वं महा इंद्र यो ह दिवश्चिदस्य त्वं महा इंद्र तुभ्यमिति निष्केवल्यम् । अ ८-७ । इति ॥

आस्येंद्रस्य वरिमोरुत्वं प्रभावं दिवश्चित् द्युलोकादपि वि प्रप्रथे । विस्तीर्ण बभूव । पृथिवी चन पृथिव्यपि च मह्ना महिम्ना महत्त्वेनेंद्रं न प्रति भवति । भूमिरपींद्रस्य प्रतिनिधिर्न भवति । ततोऽपि स गरीयानित्यर्थः । भीम शत्रूणां भयंकरस्तुविष्मान् प्रज्ञावान् बलवान्वा चर्षणिभ्यो मनुष्येभ्यः स्तोतृभ्यस्तेषामर्थाय शत्रूणामातप असमंतात्तापकारी । एवंविधः स इंद्रो वज्रं वर्जनशीलमायुधं तेजसे तैक्ष्ण्याय शिशीते तनूकरोति । तीक्ष्मीकरोति । तत्र दृष्टांतः । वंसगो न । वननीयगतिमान्वृषभो यथा स्वशृंगे युद्धार्थं तीक्ष्णीकरोति तद्वत् ॥ दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । वरिमा । उरुशब्दात् पृथ्वादिलक्षण इमनिच् । प्रियस्थिरेत्यादिनोरुशब्दस्य वरादेशः । पप्रथे । प्रथ प्रख्याने । मह्ना महिम्ना । वर्णलोपश्छांदसः । यद्वा । महेरौणादिकः । कनिप्रत्ययः । प्रत्ययस्वरेणांतोदात्तः । तृतीयै कवचनेऽल्लोपोऽन इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । प्रति । प्रतिः प्रतिनिधिप्रतिदानयोरिति प्रतिनिधौ कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते (पा २-३-८) इतींद्रशब्दाद्द्वितीया । प्रतिनिधिप्रतिदाने च यस्मात् (पा २-३-११) इति पंचमी तु छांदसत्वान्न भवति । भीमः । ञिभी भय इत्यस्माद्भियः षुग्वा (उ १-१४७) इति मक्प्रत्ययः । भीमो भिभ्यत्यस्मादिति यास्कः (नि १-२०) आतपः । तपतीति तपः । पचाद्यच् । थाथादिनोत्तरपदांतोदात्तत्वम् । शिशीते । शो तनूकरणे । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति विकरणस्य श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । ई हल्यघोरितीत्वम् । अनजादावपि लसार्वधातुके व्यत्ययेनाभ्यस्ताद्युदात्तत्वम् (पा ६-१-१८९) वंसगः । वन षण संभक्तावित्यस्मात्कर्मण्यौणादिकः सप्रत्ययः । वंसं वननीयं गच्छतीति वंसगः । डोऽन्यत्रापि दृश्यते (पा ३-२-४८) इति गमेर्डप्रत्ययः । दिवोदासादित्वात्पूर्वपदाद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९