मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् ३

संहिता

त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥

पदपाठः

त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । न । भोज॑से । म॒हः । नृ॒म्णस्य॑ । धर्म॑णाम् । इ॒र॒ज्य॒सि॒ ।
प्र । वी॒र्ये॑ण । दे॒वता॑ । अति॑ । चे॒कि॒ते॒ । विश्व॑स्मै । उ॒ग्रः । कर्म॑णे । पु॒रःऽहि॑तः ॥

सायणभाष्यम्

हे इंद्र त्वं भोजनाय पर्वतं पर्ववंतं मेघं नाकार्षीः । न हि हतो भुंक्ते । इंद्रो हि वर्षणार्थं मेघं वज्रेण हंति । तथा महो महतो नृम्णस्य धनस्य धर्मणां धारयितृणां कुबेरादीनामिरज्यसि । ईशिषे । इरज्यतिरैश्वर्यकर्मा । स इंद्रो देवता वीर्येणात्यतिशयित इति प्रचेकिते प्रकर्षेणास्माभिर्ज्ञातो बभूव । स चोग्र उद्गूर्ण इंद्रो विश्वस्मै सर्वस्मै वृत्रवधादिरूपाय कर्मणे देवैः पुरोहितः । पुरस्तादवस्थापितः ॥ धर्मणाम् । धृञ् धारणे । अन्येभ्योऽपि दृश्यंत इति कर्तरि मनिन् नित्त्वादाद्युदात्तत्वम् । इरज्यसि । इरज् ईर्ष्यायाम् । ऐश्वर्य इत्येके । कंड्वादित्वाद्यक् । वीर्येण । शूर वीर विक्रांतौ । चुरादिः । अचो यदिति यत् । णिलोपः । बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वविधानसामर्थ्याद्यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरित इति स्वरितत्वम् । तस्मिन्हि सत्याद्युदात्तं द्व्यच्छंदसीत्यनेनैव सिद्धत्वात् पुनर्वीर्यग्रहणमनर्थकं स्यादित्युक्तम् । देवता । देव एव देवता । देवात्तल् (पा ५-४-२७) इति स्वार्थे तल् प्रत्ययः । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । चेकिते । कित ज्ञाने । अस्माद्यङंताच्चेकित्यतेः कर्मणि लिट्यतोलोपयलोपौ । पुरोहितः । पुरस् शब्दस्यासिप्रत्ययांतस्य तद्धितश्चा सर्वविभक्तिरित्यव्ययत्वेव पुरोऽव्ययमिति गतिसंज्ञायां गतिरनंतर इति पूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९