मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् ४

संहिता

स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥

पदपाठः

सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् ।
वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥

सायणभाष्यम्

स इत् स एवेंद्रो वनेऽरण्ये नमस्युभिर्नमसा स्तोत्रेण पूजयितृभिर्ऋषिभिर्वचस्यते । वच इच्छन् क्रियते । स्तूयत इत्यर्थः । यद्वा । वचः स्तोत्रमात्मन इच्छति । स चेंद्र आत्मीयेषु जनेष्विंद्रियं स्ववीर्यं प्रब्रुवाणः । प्रकटयन् चारु वर्तते । किंच स वृषा कामानां वर्षको हर्यतः प्रेप्सावतो यियक्षतश्छंदुरुपच्छंदयिता भवति । यियक्षतां पुरुषाणां यागे रुचिमुत्पादयतीति भावः । वृषा हविषां वर्षयिता । हविष्ट्रदातेत्यर्थः । मघवा । धनवान् । एवंभूतोयजमानः क्षेमेणेंद्र कृतेन रक्षणेन युक्तः सन् यद्यदा धेनां स्तुतिलक्षणां वाचमिन्वति प्रेरयति । तदानीं छंदुर्भवतीति पूर्वेणान्वयः । यद्वा । मघवा वृषेंद्रः क्षेमेण क्षेपकरेण मनसा धेनां यजमानैः कृतां स्तुतिं यद्यस्मादिन्वति व्याप्नोति । तस्मादिति योज्यं ॥ नमस्युभिः । नमोवरिव इति पूजार्थे क्यच् । क्याच्छंदसीत्युप्रत्यय । वचस्यते । वच इच्छति वचस्यति । तं वचस्यंतं कुर्वंति मुनयो वचस्ययंति । वचस्ययतेः कर्मणि यक्यतोलोपयलोपौ । यद्वा । वचस्यतेर्व्यत्ययेनात्मनेपदम् । प्रब्रुवाणः । ब्रूञ् व्यक्तायां वाचि । लटः शानच् । अदादित्वाचृपो लुक् । शानचो ङित्त्वाद्गुणाभावः उवङ् । चित्स्वरेणांतोदात्तः । इंद्रियम् । इंद्रस्य लिंगमिंद्रियम् । इंद्रियमिंद्रलिंगमिंद्रदृष्वमिंद्रसृष्टमिंद्रजुष्टमिंद्रदत्तमिति वा (पा ५-२-९३) इति लिंगादिष्वर्थेष्विंद्रशब्दात् घच् प्रत्ययो निपात्यते । अंतोऽंतोदात्तत्वम् । इन्वति । इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९