मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् ५

संहिता

स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥

पदपाठः

सः । इत् । म॒हानि॑ । स॒म्ऽइ॒थानि॑ । म॒ज्मना॑ । कृ॒णोति॑ । यु॒ध्मः । ओज॑सा । जने॑भ्यः ।
अध॑ । च॒न । श्रत् । द॒ध॒ति॒ । त्विषि॑ऽमते । इन्द्रा॑य । वज्र॑म् । नि॒ऽघनि॑घ्नते । व॒धम् ॥

सायणभाष्यम्

स इत् स एवेंद्रो युध्मो योद्धा महानि समिथानि महतः संग्रामान्मज्मना सर्वस्य शोधकेनौजसा बलेन कृणोति । करोति । किमर्थम् । जनेभ्यः । स्तोतृजनार्थम् । यदेंद्रो वधं हननसाधनं वज्रमायुधं मेघेषु निघनिघ्नते । निहंति अधा चन आनंतरमेव त्वीषीमते दीप्तिमत इंद्राय सर्वे जनाः श्रद्धधति । श्रदिति सत्यनाम । इंद्रो बलवानिति यदुच्यते तत्सत्यमेवेति सर्वे प्रतिपद्यंते ॥ महानि महांतीत्यस्य तकारलोपश्छांदसः । यद्वा । मह्यंते पूज्यंत इति महानि प्रवृद्धानि । घञर्थे कविधानमिति कः । प्रत्ययस्वरः । समिथानि । इण् गतौ । संयंति संगच्छंतेऽस्मन्वीरा इति समिथानि संग्रामाः । समीणः (उ २-११) इति थक्प्रत्ययः । कित्त्वाद्गुणाभावः । थाथादिनोत्तरपदांतोदात्तत्वम् । मज्मना । टुमस्जो शुद्धौ । मनिप्रत्ययः । झलां जश् झशि (पा ८-४-५३) इति सकारस्य जत्त्वं दकारः । ततश्चुत्वं जकारः । प्रत्ययस्वरः । अध । छांदसं धत्वम् । निपातस्य चेति सांहितिको दीर्घः । त्विषीमते । त्विष दीप्तौ । इन्सर्वधातुभ्य इतीन्प्रत्ययः ।

द्युदात्तत्वम् । मतुपः पित्त्वादनुदात्तत्वे तदेव शिष्यते । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । निघनिघ्नते । हंतेर्व्यत्ययेनात्मनेपदं बहुवचनं च बहुलं छंदसीति शपः श्लुः । गमहनेत्यादिनोपधालोपः । अभ्यासस्य घत्वम् । निगागमश्च आगनीगंतीति च (पा ७-४-६५) इतीचशब्दः प्रकारार्थ इत्युक्तत्वाद्दाधर्त्यादावेतद्द्रष्टव्यं ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९