मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् ६

संहिता

स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतु॒ः सर्त॒वा अ॒पः सृ॑जत् ॥

पदपाठः

सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् ।
ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥

सायणभाष्यम्

श्रवस्युरन्नं यशो वात्मन इच्छन् कृत्रिमा कृत्रिमाणि क्रियया निर्वृत्तानि सदनान्यसुरपुराण्योजसा बलेन विनाशयन् क्ष्मया भूम्या समानं वृधानो वर्धनशीलः । यद्वा । क्ष्मयेत्योजोविशेषणम् । शत्रूणामभिभवित्रा बलेनेत्यर्थः । ज्योतींषि सूर्यादीनि वृत्रेणावृतान्यवृकाणि वृकेणावरकेण तेन रहितानि न् । कुर्वन् सुक्रतुः शोभनकर्मसहित एवंविधः स खिल्विंद्रो यज्यवे यष्ट्रे यजमानाय तदर्थं सर्तवै सरणायापो वृष्टिलक्षणान्युदकान्यवासृजत् । वृष्टिं कृतवानित्यर्थः ॥ कृत्रिमा । डुकृञ् करणे । ड्वितः क्त्रिः (पा ३-३-८८) इति भावे क्त्रिप्रत्ययः । त्रेर्मम्नित्यम् (पा ४-४-२०) इति निर्वृत्तार्थे मप् । तस्य पित्त्वादनुदात्तत्वे क्त्रिप्रत्ययस्वर एव शिष्यते । शेश्छंदसि बहुलमिति शेर्लोपः । क्ष्मया । क्षमूष् सहने । क्षमते प्राणिजातकृतमुपद्रवमिति क्षमा । षिद्भिदादिभ्योऽ ङ् (पा ३-३-१०४) इत्यङ् प्रत्ययः । ततष्वाप् । व्यत्ययेन स्त्रीलिंगता । मनः (पा ४-१-११) इति ङीपो निषेधे । डाबुभाभ्यामन्यतरस्याम् (पा ४-१-१३) इति डाप् । टलोपः । वृधानः । ताच्छीलिकश्चानश् । बहुलं छंदसीति शपो लुक् । चित इत्यं शोदात्तत्वम् । अवृकाणि । वृञ् वरणे । सृवृभूशुषिमुषिभ्यः कित् (उ ३-४१) इति कन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । यज्यवे । यजिमनिशुंधिदसिजनिभ्यो युरिति युप्रत्ययः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । सुक्रतुः । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युदात्वत्वम् । सर्तवै । सृ गतौ । कृत्यार्थे तवैकेनिति भावे तवैप्रत्ययः । गुणः । अंतश्च तवै युगपत् (पा ६-१-२००) इत्याद्यंतयोर्युगपदुदात्वत्वम् । अपः । ऊडिदमिति शस उदात्तत्वम् । सृजत् । लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०