मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् ७

संहिता

दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
यमि॑ष्ठास॒ः सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥

पदपाठः

दा॒नाय॑ । मनः॑ । सो॒म॒ऽपा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा॑ । हरी॒ इति॑ । व॒न्द॒न॒ऽश्रु॒त् । आ । कृ॒धि॒ ।
यमि॑ष्ठासः । सार॑थयः । ये । इ॒न्द्र॒ । ते॒ । न । त्वा॒ । केताः॑ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण॑यः ॥

सायणभाष्यम्

हे सोमपावन् सोमस्य पातरिंद्र ते त्वदीयं मनो दानायास्मदभिमतफलप्रदानायास्तु । भवतु । हे वंदनश्रुत् । वंदनानां स्तुतीनां श्रोतः हरी त्वदीयावश्वावर्वांचास्मद्यज्ञाभिमुखावा कृधि । आभिमुख्येन कुरु । हे इंद्र ते तव स्वभूता ये सारथयः संति ते यमिष्ठासोऽतिशयेन यंतारः । अश्विनियमनकुशला इत्यर्थः । यस्मादेवं तस्मात्केताः प्रातिकूल्यज्ञातारो भूर्णयः स्वकीयायुधादीनां भर्तारः । यद्वा । भीतास्तीक्ष्णाः शत्रवस्त्वा त्वां ना दभ्नुवंति । न हिंसंति ॥ सोमपावन् । आतो मनिन्निति वनिप् । आसंबुद्धाविति पर्युदासाद्दीर्घाभावः । अर्वांचा । सुपां सुलगिति विभक्तेराकारः । वंदनश्रुत् । वदि अभिवादनस्तुत्योः । इदित्त्वान्नुम् । भावे ल्युट् । तेषां श्रोता । श्रु श्रवणे । क्विपि तुगागमः । यमिष्ठासः । यंतुः शब्दात्तुश्छंदसीतीष्ठन्प्रत्ययः । तुरिष्ठेमेयः स्विति तृलोपः । नित्त्वादाद्युदात्तत्वम् । आज्जसेरसुगित्यसुक् । केताः । कित ज्ञाने । चिकेतति प्रतिकूलं जानंतीति केताः । पचाद्यच् । वृषादेराकृतिगणत्वादाद्युदात्तत्वं यद्वा । प्रतिकूलतया ज्ञायंत इति केताः । कर्मणि घञ् । ञित्वादाद्युदात्तत्वम् । दभ्नुवंति । दन्भु दंभे । स्वादित्वाच्छ्नुः । तस्य ङित्त्वादनिदितामिति नलोपः । संयोगपूर्वत्वेन हुश्नुवोरिति यणादेशाभावेऽचि श्नुधात्वित्यादिनोवङादेशः । भूर्णयः । भृञ् भरणे । घृणिः पृश्निरित्यादौ (उ ४-५२) अस्मान्निप्रत्ययांतो निपात्यते । ऋत उत्वं दीर्घश्च । यद्वा । भृ भय इत्यस्मात्कृत्यल्युटो बहुलमिति कर्तरि क्तिन्युदोष्ठ्यपूर्वस्येत्युत्वम् । हलि चेति दीर्घः । ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति । पा ८-२-४४-१ । इति निष्ठावद्भावान्नत्वम् । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०