मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५६, ऋक् १

संहिता

ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणि॑ः ।
दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ॥

पदपाठः

ए॒षः । प्र । पू॒र्वीः । अव॑ । तस्य॑ । च॒म्रिषः॑ । अत्यः॑ । न । योषा॑म् । उत् । अ॒यं॒स्त॒ । भु॒र्वणिः॑ ।
दक्ष॑म् । म॒हे । पा॒य॒य॒ते॒ । हि॒र॒ण्ययम् । रथ॑म् । आ॒ऽवृत्य॑ । हरि॑ऽयोगम् । ऋभ्व॑सम् ॥

सायणभाष्यम्

एष प्र पूर्वीरिति षडृचं षष्ठं सूक्तं सव्यस्यार्षमृंद्रं जागतमित्युक्तम् । अनुक्रांतं च । एष प्र षडित ॥ विषुवति निष्केवल्य एतत्सूक्तं शंसनीयम् । विषुवान्दिवाकीर्त्य इति खंडे सूत्रितम् । एष प्र पूर्वीर्वृषामदः प्र मंहिष्ठाय (आ ८-९) इति ॥

भुर्वणिरत्तैष इंद्रस्तस्य यजमानस्य पूर्वी प्रभूताश्चम्रिषश्चमूषु चमसेष्ववस्थिताः सोमलक्षणा इषः प्रावोदयंस्त । प्रकर्षेण पानार्थमुद्धरति । तत्र दृष्टांतः । अत्यो न योषाम् । यथाश्वो वडवां क्रीडार्थमुपयच्छति । स चेंद्रो हिरण्ययं सुवर्णमयं हरियोगं हरिभ्यां युक्तमृभ्वसमुरु भासमानं रथमावृत्यावस्थाप्य महे महते वृत्रवधादिरूपाय कर्मणे दक्षं प्रवृद्धमात्मानं सोमं पाययते । पानं कारयति ॥ पूर्वी । पृ पालनपूरणयोः । पृभिदिव्यधीत्यादिना (उ १-२४) कुप्रत्ययः । उदोष्ठ्यपूर्वस्येत्युत्वम् । पुरुशब्दाद्वोतो गुणवचनादिति ङीष् । यणादेशः । हलि चेति दीर्घत्वम् । प्रत्ययस्वरः । चम्रिषः । चमु अदन इत्यस्मात्कृषिचमितनिधनीत्यादिना (उ १-८२) ऊप्रत्ययांशश्चमूशब्दः । तस्यां वर्तमाना इषश्चम्विषः । वकारस्य रेफश्छांदसः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अयंस्त । छांदसे वर्तमाने लुङि व्यत्ययेनात्मनेपदम् । एकाच इतीट्प्रषेधः भुर्वणिः । भुर्वतिरत्तिकर्मेति यास्कः (नि ९-२३) धातुपाठे तु भर्व हिंसायामिति पठ्यते अस्मादौणादिकोऽनिप्रत्ययः । अकारस्योकारश्छांदसः । पाययते । पा पाने शाछासाह्वाय्वावेपां युक् । पा ७-३-३७ इति हेतुमति णिचि युगागमः । णिचश्च (पा १-३-७४) इत्यात्मनेपदम् । हिरण्ययम् । ऋत्व्यवास्त्व्येत्यादिना हिरण्यशब्दादुत्तरस मयटो मशब्दलोपो निपात्यते हरियोगं हर्योर्योगो योजनं यस्मिन् हरिशब्द इन्प्रत्ययांत आद्युदात्तः । स एव बहुव्रीहिस्वरेण शिष्यते ऋभ्वसं उरुभासमित्यस पृषोदरादित्वादृभ्दसादेशः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१