मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५६, ऋक् ३

संहिता

स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥

पदपाठः

सः । तु॒र्वणिः॑ । म॒हान् । अ॒रे॒णु । पौंस्ये॑ । गि॒रेः । भृ॒ष्टिः । न । भ्रा॒ज॒ते॒ । तु॒जा । शवः॑ ।
येन॑ । शुष्ण॑म् । मा॒यिन॑म् । आ॒य॒सः । मदे॑ । दु॒ध्रः । आ॒भूषु॑ । र॒मय॑त् । नि । दाम॑नि ॥

सायणभाष्यम्

स इंद्रस्तुर्वणिः शत्रूणां हिंसिता क्षिप्रकारी वा । तुर्वणिस्तूर्णवनिरिति यास्कः (नि ६-१४) तूर्णसंभजन इति तस्यार्थः । महान्प्रवृद्दश्च भवति । तस्येंद्रस्य शवो बलं पौंस्ये वीर्यैः पुरुषैः कर्तव्ये संग्रामेऽरेण्वनवद्यं तुजा शत्रूणां हिंसकं सत् भ्राजते । दीप्यते । तत्र दृष्टांतः । गिरेः पर्वतस्य भृष्टिर्न शृंगमिव । तद्यथोन्नतं सद्दीप्यते तद्वत् । आयसोऽयोमयकवचयुक्तदेहो दुध्रो दुष्टानां शत्रूणां धर्तावस्थापयिता एवंभूत इंद्रो मदे सोमपानेन हर्षे सति येन बलेन शुष्णं सर्वस्य शोषकमसुरं मायिनं मायाविनमाभूषु कारागृहेषु दामनि बंधके निगडे नि रमयत् न्यवासयत् । तद्बलमिति पूर्वेणान्वयः । तुर्वणिः । तुर्वी हिंसार्थः । अस्मादौणादिकोऽनिप्रत्ययः । अरेणु । रेणुवदाच्छादकत्वाद्रेणुशब्देनावद्यमुच्यचते । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं तुजा तुज हिंसायाम् । इगुपधलक्षणः कः । सुपां सुलुगिति विभक्तेरुकारः । दुध्रः । दुष्टान् ध्रियतेऽवस्थापयतीति दुध्रः । धृङ् अवस्थान इत्यस्मादंतर्भावितण्यर्थान्मूलविभुजादित्वात्कप्रत्ययः पा ३-२-५-२ । यणादेशः । रेफलोपश्छांदसः । रमयत् । आमंतत्वान्मित्त्वे मितां ह्रस्व इति ह्रस्वत्यम् । छांदसः संहितायां दीर्घः ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१