मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५६, ऋक् ४

संहिता

दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्य॑ः ।
यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणि॑ः ॥

पदपाठः

दे॒वी । यदि॑ । तवि॑षी । त्वाऽवृ॑धा । ऊ॒तये॑ । इन्द्र॑म् । सिष॑क्ति । उ॒षस॑म् । न । सूर्यः॑ ।
यः । धृ॒ष्णुना॑ । शव॑सा । बाध॑ते । तमः॑ । इय॑र्ति । रे॒णुम् । बृ॒हत् । अ॒र्ह॒रि॒ऽस्वनिः॑ ॥

सायणभाष्यम्

य इंद्रो धृष्णुना धर्षकेन शवसा बलेन तमस्तमोरूपं वृत्रादिमसुरं बाधते हिनस्ति ऊतये रक्षणाय त्वावृधा त्वया स्तोत्रा वर्धितं तमिंद्रं देवी तविषी द्योतमानं बलं यदि यदा सिषक्ति समवैति । सेवत इति यास्कः । सूर्यउषसं न यथोषोदेवतां सेवते । नित्य तत्संबद्धो भवतीत्यर्थः । तदानीमर्हरिष्टणिः । गच्चंतो हरंतीत्यर्हरयः शत्रवः । तेषां व्यथोत्पादनेन स्वनयिता शब्दयितेंद्रो रेणुं रेषणं हिंसनं बृहत्प्रभूतमियर्ति । शत्रून् । गमयति ॥ श्वावृधा । त्वया वर्धत इति त्वावृत् । क्विप्चेति क्विप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । छांदसं दकारस्यात्वम् । सुपां सुलुगिति द्वितीयाया आकारः । सिषक्ति । षच समवाये । बहुलं छंदसीति तपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । इयर्ति । ऋ सृ गतौ । जौहोत्यादिकः । अस्मादंतर्भावितण्यर्थाल्लट् । शपः श्लुर्द्विर्भावोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यासस्यासवर्णे (पा ६-४-७८) इतीयङादेशः । अनुदात्ते चेत्यभ्यासस्याद्युदात्तत्वम् । पूर्वपदस्य वाक्यांतरगतत्वेन पदादपरत्वान्निघाताभावः । रेणुम् । री गतिरेषणयोः । अस्मादौणादिको नुप्रत्ययः । अर्हरिष्वणिः । अर्तेरन्येभ्योऽपि दृश्यंत इति विच् । अरो गच्छंतश्चेमे हरयश्चेत्यर्हरयः । तेषां स्वनयिता । स्यमुस्वन ध्वन शब्दे । अस्माण्यंतादौणादिक इन्प्रत्ययः । णेरनिटीति णिलोपः । घटादित्वान्मित्त्वे मितां ह्रस्व इति ह्रस्वत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१