मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५६, ऋक् ५

संहिता

वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम् ॥

पदपाठः

वि । यत् । ति॒रः । ध॒रुण॑म् । अच्यु॑तम् । रजः॑ । अति॑स्थिपः । दि॒वः । आता॑सु । ब॒र्हणा॑ ।
स्वः॑ऽमीळ्हे । यत् । मदे॑ । इ॒न्द्र॒ । हर्ष्या॑ । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥

सायणभाष्यम्

यद्यदा तिरो वृत्रेण तिरोहितं धरुणं सर्वस्य प्राणिजातस्य धारकमच्युतं विनाशरहितं रज उदकं दिवो द्युलोकादातासु । आशा इति दिङ्नाम । आतासु विस्तृतासु दिक्षु हे इंद्र ब्रर्हणा हंता त्वं व्यतिष्ठि पो विविधं स्थापयां चकृषे । तथा यद्यदा स्वर्मीळ्हे । मीळ्हमिति धननाम । स्वः सुष्ठु गंतव्यं मीळ्वं धनं यस्मिन् तस्मिन्संग्रामे मदे तव सोमपानेन हर्षे सति हर्ष्या हृष्टया शक्त्या वृत्रमावरकमसुरमहन् त्वमवधीः । तदानीमपां पूर्णमर्णवं मेघं निरौब्जः । वर्षणाभिमुखमधोमुखमकार्षीः । वृष्टेरावरकं वृत्रं हत्वा वृष्टिजलेन भूमिं न्यसैक्षीरिति तात्पर्यार्थः ॥ अतिष्ठिपः । तिष्ठतेर्ण्यंताल्लुङि च्लेश्जङादेशः । णिलोपः । तिष्ठतेरित् (पा ७-४-५) इत्युपधाया इत्वम् । चङि पा ६-१-११ । इति द्विर्वचने शर्पूर्वाः खय इति थकारः शिष्यते । चर्त्वेन तकारः । आडागम उदात्तः । यद्वृत्तयोगादनिघातः । बर्हणा । सुपां सुलुगिति सोराकारः । स्वर्मीळ्हे । मिह सेचने । निष्ठा । हो ढः (पा ८-२-३१) इति ढत्वम् । झषस्तथोर्धोऽध इति तकारस्य धत्वम् । तस्य ष्टुत्वे ढो ढे लोपः (पा ८-३-१३) इति ढलोपः । ढ्रलोपे पूर्वस्य (पा ६-३-१११) इति दीर्घत्वम् । स्वरित्येतत् न्यङ् स्वरौ स्वरिताविति स्वर्यते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । अहन् । दंतेर्लङि मध्यमैकवचने हल्ङ्याभ्य इति सेर्लोपः । यद्वृत्तयोगादनिघातः । औब्जः उब्ज आर्जवे । लङ्याडागमो वृद्धिश्च ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१