मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५७, ऋक् १

संहिता

प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥

पदपाठः

प्र । मंहि॑ष्ठाय । बृ॒ह॒ते । बृ॒हत्ऽर॑ये । स॒त्यऽशु॑ष्माय । त॒वसे॑ । म॒तिम् । भ॒रे॒ ।
अ॒पाम्ऽइ॑व । प्र॒व॒णे । यस्य॑ । दुः॒ऽधर॑म् । राधः॑ । वि॒श्वऽआ॑यु । शव॑से । अप॑ऽवृतम् ॥

सायणभाष्यम्

प्र मंहिष्ठायेति षडृचं सप्तमं सूक्तं सव्यस्यार्षमैंद्रं जागतम् । तथा जानुक्रांतम् । प्र मंहिष्ठायेति ॥ विषुवति निष्केवल्य इदं सूक्तं शंसनीयम् । सूत्रितं च । प्र मंहिष्ठाय त्यमूष्वितीह तार्क्ष्यमंततः ॥ आ ८-६ इति ॥ उक्थ्यसंस्थे क्रतौ तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽप्येतत्सूक्तम् । सूत्रितं च । सर्वाः ककुभः प्र मंहिष्ठायोदप्रुतः (आ ६-१) इति ॥

मंहिष्ठाय । मंहतिर्धानकर्मेति यास्कः (नि १-७) दातृतमाय बृहते गुणैर्महते बृहद्रये महाधनाय सत्यशुष्मायावितथबलाय तवस आकारतः प्रवृद्धाय । एवंगुणविशिष्टायेंद्राय मतिं मननीयां स्तुतिं प्र भरे । प्रकर्षेण संपादयामि । यस्येंद्रस्य बलं दुर्धरमन्यैर्धर्तुमशक्यम् । तत्र दृष्टांतः । प्रवणे निम्न प्रदेशेऽपामिव । यथा जलानां वेगः केनाप्यवस्थापयितुं न शक्यते तद्वत् । तथा राधो धनं विश्वायु सर्वेषु व्याप्तं शवसे स्तोतृणां बलाय येनेंद्राणापावृतम् । अपगतावरणं क्रियते तस्येंद्रस्येति पूर्वेण संबंधः ॥ मंहिष्ठाय । अतिशयेन मंहिता मंहिष्ठः । तुश्छंदसीतीष्ठन्प्रत्ययः । तुरीष्ठेमेयःस्विति तृलोपः । बृहते । बृहन्महतोरपसंख्यानमिति विभक्तेरुदात्तत्वम् । उत्तरयोर्बहुव्रीहिस्वरः । मतिम् । मंत्रे वृषेत्यादिना क्तिन्नुदात्तत्वम् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । दुर्धरम् । धृञ् धारणे । ईषद्दुःसुष्विति कर्मणि खल् । विश्वायु । विश्वस्मिन्सर्वस्मिन्नायु गमनं यस्य तद्विश्वायु । एतेश्छंदसीणः (उ १-२) इत्युण्प्रत्ययः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । अपावृतम् । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२