मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५७, ऋक् ४

संहिता

इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिर॒ः सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥

पदपाठः

इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒ऽस्तु॒त॒ । ये । त्वा॒ । आ॒ऽरभ्य॑ । चरा॑मसि । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो ।
न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः॑ । सघ॑त् । क्षो॒णीःऽइ॑व । प्रति॑ । नः॒ । ह॒र्य॒ । तत् । वचः॑ ॥

सायणभाष्यम्

हे इंद्र प्रभूवसो प्रभूतधन अत एव पुरुष्वुत पुरुभिर्बहुभिर्यजमानैः स्तुत ये च वयं त्वा त्वामारभ्याश्रयतयावलंब्य चरामसि चरामो यागे वर्तामहे त इमे वयं ते तव स्वभूताः । हे गिर्वणो गीर्भिर्वननी येंद्र त्वदन्यस्त्वत्तोऽन्यः कश्चिदपि गिरः स्तुतीर्नहि सघत् । न हि प्राप्नोति । अतस्त्वं नोऽस्माकं तत्स्तुतिलक्षणं वचः प्रति हर्य । कामयस्व । क्षोणीरिव । यथा क्षोणी पृथिवी स्वकीयानि भूतजातानि कामयते ॥ चरामसि । इदंतो मसिः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । सघत् । षघ हिंसायाम् । आत्र प्राप्त्यर्थो धातूनामनेकार्थत्वात् । लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । पादादित्वान्निघाताभावः । क्षोणीरिव । हल्ज्याब्भ्य इति सुलोपाभावश्छांदसः ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२