मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५७, ऋक् ५

संहिता

भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥

पदपाठः

भूरि॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । तव॑ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः । म॒घ॒ऽव॒न् । काम॑म् । आ । पृ॒ण॒ ।
अनु॑ । ते॒ । द्यौः । बृ॒ह॒ती । वी॒र्य॑म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । ने॒मे॒ । ओज॑से ॥

सायणभाष्यम्

हे इंद्र ते तव वीर्यं सामार्थ्यं भूरि बहु । न केनाप्यवच्छेत्तुं शक्यते । तादृशस्य तव वयं स्मसि । स्वभूता भवामः । हे मघवन्नस्य स्तोतुः त्वां स्तुवतो यजमानस्य काममभिलाषमा पृण । आपूरय । बृहती द्यौर्महान् द्युलोकोऽपि ते तव वीर्यमनु ममे । अन्वमंस्त । इंद्रेण सहावस्थानादियं चेयमपि पृथिवी ते तवौजसे बलाय नेमे । प्रह्वीबभूव । त्वद्बलाद्भीता सत्यध एव वर्तत इति भावः ॥ स्मसि । अस भुवि । लट श्नसोरल्लोप इत्यकारलोपः । इदंतो मसिः । पृण । पृण प्रीणने । आत्र प्रीतिहेतुतया पूरणं लक्ष्यते । तुदादित्वाच्छप्रत्ययः । तस्य ङित्त्वाद्गुणाभावः । ममे । माङ् माने शब्दे च । ङित्त्वादात्मनेपदम् । लिट्यातो लोप इटि चेत्याकारलोपः । नेमे । णमु प्रह्वत्वे । लिट्यत एकहल्मध्य इत्येत्वाभ्यासलोपौ । तिङ्ङतिङ इति निघातः ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२