मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५७, ऋक् ६

संहिता

त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
अवा॑सृजो॒ निवृ॑ता॒ः सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥

पदपाठः

त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । म॒हाम् । उ॒रुम् । वज्रे॑ण । व॒ज्रि॒न् । प॒र्व॒ऽशः । च॒क॒र्ति॒थ॒ ।
अव॑ । अ॒सृ॒जः॒ । निऽवृ॑ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व॑म् । द॒धि॒षे॒ । केव॑लम् । सहः॑ ॥

सायणभाष्यम्

हे वज्रिन्वज्रवन्निंद्र त्वं तं प्रसिद्धं महामायामतो महांतमुरुं विस्तीर्णं पर्वतं पर्ववंतं मेघं व्यत्रासुरं वा वज्रेणायुधेन पर्वशः पर्वणि पर्वणि चकर्तिथ । शकलीचकृषे । तेन मेघेन निवृता आवृता आपः सर्तवै सरणाय गमनाय अवासृजः । अवाङ्मुखमस्राक्षीः । अतस्त्वमेव केवलं विश्वं व्याप्तं सहो बलं दधिषे । धारयसि । नान्यः कश्चिदिति । यदेतत्तत्सत्रा सत्यमेव । सत्रेति । सत्यनाम । सत्रेत्थेति तन्नामसु पाठात् ॥ महाम् । महांतम् । नकारतकारयोर्लोपश्छांदसः । चकर्तिथ । कती छेदने । लिट थल्यभ्यासस्योरदत्वहलादिशेषचुत्वानि । सर्तवै । कृत्यार्थे तवैकेनिति भावे तवैप्रत्ययः । कृन्मेजंतः (पा १-१-३९) इत्यव्ययत्वेऽव्ययादाप्सुप इति सुपो लुक् । अंतश्च तवै युगपदित्याद्यंतयोर्युगपदुदात्तत्वम् । दधिषे । लिट क्रादिनियमादिटे ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२