मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् १

संहिता

नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु॑न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः ।
वि साधि॑ष्ठेभिः प॒थिभी॒ रजो॑ मम॒ आ दे॒वता॑ता ह॒विषा॑ विवासति ॥

पदपाठः

नु । चि॒त् । स॒हः॒ऽजाः । अ॒मृतः॑ । नि । तु॒न्द॒ते॒ । होता॑ । यत् । दू॒तः । अभ॑वत् । वि॒वस्व॑तः ।
वि । साधि॑ष्ठेभिः । प॒थिऽभिः॑ । रजः॑ । म॒मे॒ । आ । दे॒वऽता॑ता । ह॒विषा॑ । वि॒वा॒स॒ति॒ ॥

सायणभाष्यम्

एकादशानुवाके सप्त सूक्तानि । तत्र नू चिदिति नवर्चं प्रथमं सूक्तं गौतमस्य नोधस आर्षमाग्नेयम् । आद्याः पंच जगत्यः । शिष्टाश्चतस्रस्त्रिष्वुभः । तथा चानुक्वांतम् । नू चिन्नव नोधा गौतम आग्नेयं हि चतुस्त्रिष्टुबंतमिति । हीति वचनादुत्तरे च द्वे सूक्ते अग्निदेवताके ॥ आभिप्लवषडहस्य पंचमेऽहन्याग्निमारुत इदं जातवेदस्यं निविद्धानम् । तृतीयस्येति खंडे सूत्रितम् । पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम् । आ ७ ७ । इति ॥ प्रातरनुवाकस्याग्नेये क्रतावाश्विनशस्त्रे च जागते छंदस्यादितः पंचर्चः । सूत्रितं च । त्वमग्ने प्रथमो अंगिरा नू चित्सहोजा अमृतो नि तुंदत इति पंच (आ ४-१३) इति ॥

सहोजाः सहसा बलेन जातः । अग्निर्हि बलेन मथ्यमानोऽरण्योः सकाशाज्जायते । अमृतो मरणरहितः । एवंभूतोऽग्निर्नू चित् क्षिप्रमेव नि तुंदते । नितरां व्यथयति । उत्पन्नमात्रस्याग्नेः स्प्रष्टुमशक्यत्वात् । यद्वा । निर्गच्छति । तुंदतिर्गत्यर्थः सौत्रो धातुः । यद्यदा होता देवानामाह्वाता होमनिष्पादको वायमग्निर्विवस्वतः परिचरतो यजमानस्य देवान्प्रति हविर्वहनाय दूतोऽभवत् हविर्वहने नियुक्तो भवति तदानीं साधिष्ठेभिः समीचीनैः पथिभिर्मार्गैर्गच्छन् रजोऽंतरिक्षलोकं वि ममे । निर्ममे । पूर्वं विद्यमानमप्यंतरिक्षमसत्कल्पमभूत् । इदानीं तस्य तेजसा प्रकाशमानं सदुत्पन्नमिव दृश्यते । किंच । देवतातेति यज्ञनाम । देवताता देवतातौ यज्ञे हविषा चरुपुरोडाशादिलक्षणेन देवाना विवासति । परिचरति ॥ अमृतः । मृतं मरणमस्य नास्तीति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । तुंदते । तुद व्यथने । स्वरितेत्त्वादात्मनेपदम् । नकारोपजनश्छांदसः । साधिष्ठेभिः । वाढशब्दादातिशायनिक इष्ठन्यंतिकवाढयोर्नेदसाधौ (पा ५-३-६३) इति साधादेशः । बहुलम् । छंदसीति भिस ऐशभावः । नित्त्वादाद्युदात्तत्वम् । देवताता । सर्वदेवात्तातिल् (पा ४-४-१४२) इति स्वार्थिकस्तातिल्प्रत्ययः । तेन च तत्संबंधी यज्ञो लक्ष्यते । यद्वा । देवान्हविषा आ विवासतीति योज्यम् । सुपां सुलुगिति विभक्तेर्डादेशः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वं ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३