मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ३

संहिता

क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः ।
रथो॒ न वि॒क्ष्वृ॑ञ्जसा॒न आ॒युषु॒ व्या॑नु॒षग्वार्या॑ दे॒व ऋ॑ण्वति ॥

पदपाठः

क्रा॒णा । रु॒द्रेभिः॑ । वसु॑ऽभिः । पु॒रःऽहि॑तः । होता॑ । निऽस॑त्तः । र॒यि॒षाट् । अम॑र्त्यः ।
रथः॑ । न । वि॒क्षु । ऋ॒ञ्ज॒सा॒नः । आ॒युषु॑ । वि । आ॒नु॒षक् । वार्या॑ । दे॒वः । ऋ॒ण्व॒ति॒ ॥

सायणभाष्यम्

क्राणा हविर्वहनं कुर्वाणो रुद्रेभी रुद्रैर्वसुभिश्च पुरोहितः पुरस्कृतो होता देवानामाह्वाता निषत्तो हविःस्वीकरणाय देवयजने निषण्णो रयिषाट् रयीणां शत्रुधनानामभिभवितामर्त्यो मरणरहितः । एवं भूतो देवो द्योतमानोऽग्निर्विक्षु प्रजासु लौकिकजनेषु रथो न रथ इवायुषु यजमानलक्षणेषु मनुष्येष्वृंजसानः स्तूयमानो वार्या वार्याणि संभजनीयानि धनान्यानुषक् अनुषक्तं यथा भवति तथा व्यृण्वति । विशेषेण प्रापयति । यद्वा । वार्याणि वरणीयाननि हवींष स्वयं प्राप्नोति ॥ क्राणा । करोतेः शानचि बहुलं छंदसीति विकरणस्य लुक् । शानचो ङित्त्वाद्गुणाभावे यणादेशः । चित इत्यंतोदात्तत्वम् । सुपां सुलुगिति सोः पूर्वसवर्णदीर्घत्वम् । निषत्तः । षद्लृ विशरणगत्यवसादनेषु । अस्मात्कर्मणि निष्ठा । नसत्तनिषत्तेत्यादिना (पा ८-२-६१) निष्ठानत्वाभावो निपातितः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । रयिषाट् । षह अभिभवे छंदसि सहः (पा ३-२-६३) इति ण्विः । सहेः साडः सः (पा ८-३-५६) इति षत्वम् । ऋंजसानः । ऋंजतिः स्तुतिकर्मा । असानजित्यनुवृत्तावृंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इति कर्मण्यसानच् प्रत्ययः । चित इत्यंतोदात्तत्वम् । आयुषु । आयव इति मनुष्यनाम । इण् गतावित्यस्माच्छंदसीण इत्युण्प्रत्ययः । वृद्ध्यायादेशौ । वार्या । वृङ् संभक्तौ । ऋहलोर्ण्यत् । तित्स्वरिते प्राप्त ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । शेश्छंदसीति शेर्लोपः । ऋण्वति । रिवि गतौ । व्यत्ययेन संप्रसारणम् । इदित्त्वान्नुम् । कर्तरि शप् ॥ ३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३