मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ४

संहिता

वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा॑ जु॒हूभि॒ः सृण्या॑ तुवि॒ष्वणि॑ः ।
तृ॒षु यद॑ग्ने व॒निनो॑ वृषा॒यसे॑ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ॥

पदपाठः

वि । वात॑ऽजूतः । अ॒त॒सेषु॑ । ति॒ष्ठ॒ते॒ । वृथा॑ । जु॒हूभिः॑ । सृण्या॑ । तु॒वि॒ऽस्वनिः॑ ।
तृ॒षु । यत् । अ॒ग्ने॒ । व॒निनः॑ । वृ॒ष॒ऽयसे॑ । कृ॒ष्णम् । ते॒ । एम॑ । रुश॑त्ऽऊर्मे । अ॒ज॒र॒ ॥

सायणभाष्यम्

वातजूतो वायुना प्रेरितस्तुविष्वणिर्महास्वनः एवंभूतोऽग्निर्जुहूभिः स्वकीयाभिर्जिह्वाभिः सृण्या सरणशीलेन तेजःसमूहेन च युक्तः सन् । व्यथेत्यनायासवचनः । वृथानायासेनैवातसेषून्नतेषु वृक्षेषु वि तिष्ठते । विशेषेण तिष्ठति । हे अग्ने यद्यदा वनिनो वनसंबंधान्वृक्षाद्दग्धुं वृषायसे वृषवदाचरसि दहसीत्यर्थः । हे रुतदूर्मे दीप्तज्वाल अजर जरारहिताग्ने ते तवैव गमनमार्गः कृष्णं कृष्णवर्णो भवति ॥ वातजूतः । जू इति सौत्रो धातुः । वातेन जूतो वातजूतः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वितिष्ठते । समवप्रविभ्यः स्थ इत्यात्मनेपदम् । जुहूभिः । हु दानादनयोः । हूयत आस्विति जुहूः । हुवः श्लुवच्च । उ २ । ६० । इति क्विप् । चकाराद्दीर्घः । श्लुवद्भावाद्द्विर्भावादि । धातोरित्यंतोदात्तत्वम् । सृण्या । सृ गतौ । सरतीति सृणिः । सृवृषिभ्यां कित् (उ ४-४९) इति निप्रत्ययः । एम । एत्यनेनेत्येम मार्गः । इण् गतावित्यस्मात्करण औणादिको मनिन् । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३