मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ५

संहिता

तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः ।
अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं॑ भयते पत॒त्रिणः॑ ॥

पदपाठः

तपुः॑ऽजम्भः । वने॑ । आ । वात॑ऽचोदितः । यू॒थे । न । सा॒ह्वान् । अव॑ । वा॒ति॒ । वंस॑गः ।
अ॒भि॒ऽव्रज॑न् । अक्षि॑तम् । पाज॑सा । रजः॑ । स्था॒तुः । च॒रथ॑म् । भ॒य॒ते॒ । प॒त॒त्रिणः॑ ॥

सायणभाष्यम्

तपुर्जंभः । तपूंषि ज्वाला एव जंभा आयुधानि मुखानि वा यस्य स तथोक्तः । वातचोदितो वायुना प्रेरितः । एवंभूतोऽग्निर्यूथे ज्वलासमूहे सत्यक्षितमक्षीणं रज आर्द्रवृक्षांतर्गतमुदकं पाजसा तेजोबलेनाभिव्रजन् आभिमुख्येन गच्छन्वनेऽरण्ये स्वाह्वान् सर्वमभिभवन् आ आभिमुख्येनाव वाति व्याप्नोति । तत्र दृष्टांतः । वंसगो न । यथा वननीयगतिर्वृषो गोयूथे सर्वमभिभवन्वर्तते तद्वत् । यस्मादेवं तस्मात्पतत्रिणः पतनवतोऽग्नेः सकाशात्स्थातुः स्थावरं चरथं च जंगमं च भयते । बिभेति ॥ साह्वान् । दाश्वान्साह्वानिति क्वसुप्रत्ययांतो निपातितः । दीर्घादट समानपाद इति संहितायां नकारस्य रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । यत्वलोपौ । ह्रस्वत्वं छांदसम् । स्थातुः । कमिमनिजनीत्यादिना (उ १-७३) विहितस्तुप्रत्ययो बहुलवचनात्तिष्ठतेरपि भवति । यद्वा । स्थातुरनंतरं चरथं भयते । प्रथमं स्थातृ स्थावरं बिभेति पश्चाच्चरथमित्यर्थः । चरथम् । चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । भयते । ञिभी भये । व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति श्लोरभावः । गुणावादेशौ ॥ ५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३