मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ६

संहिता

द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं॑ सु॒हवं॒ जने॑भ्यः ।
होता॑रमग्ने॒ अति॑थिं॒ वरे॑ण्यं मि॒त्रं न शेवं॑ दि॒व्याय॒ जन्म॑ने ॥

पदपाठः

द॒धुः । त्वा॒ । भृग॑वः । मानु॑षेषु । आ । र॒यिम् । न । चारु॑म् । सु॒ऽहव॑म् । जने॑भ्यः ।
होता॑रम् । अ॒ग्ने॒ । अति॑थिम् । वरे॑ण्यम् । मि॒त्रम् । न । शेव॑म् । दि॒व्याय॑ । जन्म॑ने ॥

सायणभाष्यम्

हे अग्ने त्वा त्वां मानुषेषु मनुष्येषु मध्ये भृगव एतत्संज्ञा महर्षयो दिव्याय जन्मने देवत्वप्राप्तये चारुं रयिं न शोभनं धनमिवा दधुः । आधानसंभारेषु मंत्रैः स्थापनेन समस्कुर्वन् । कीदृशं त्वाम् । जनेभ्यः सुहवं यजमानार्थमाह्वातुं सुशकं होतारं देवानामाह्वातारं अतिथिमतिथिवत्पूज्यम् । यद्वा । देवयजनदेशेषु सततं गंतारम् । वरेण्यं वरणीयं मित्रं न शेवम् । यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः ॥ दधुः । लिट्युस्यातो लोप इट चेत्याकारलोपः । युष्मत्तत्ततक्षुःष्वंतःपादमिति विसर्जनीयस्य षत्वम् । सुहवम् । ह्वयतेरीषद्दुःसुष्विति खल् । बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वम् । गुणावादेशौ । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४