मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ७

संहिता

होता॑रं स॒प्त जु॒ह्वो॒३॒॑ यजि॑ष्ठं॒ यं वा॒घतो॑ वृ॒णते॑ अध्व॒रेषु॑ ।
अ॒ग्निं विश्वे॑षामर॒तिं वसू॑नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न॑म् ॥

पदपाठः

होता॑रम् । स॒प्त । जु॒ह्वः॑ । यजि॑ष्ठम् । यम् । वा॒घतः॑ । वृ॒णते॑ । अ॒ध्व॒रेषु॑ ।
अ॒ग्निम् । विश्वे॑षाम् । अ॒र॒तिम् । वसू॑नाम् । स॒प॒र्यामि॑ । प्रय॑सा । यामि॑ । रत्न॑म् ॥

सायणभाष्यम्

सप्त सप्तसंख्याका जुह्वो होतारो वाघत ऋत्विजोऽध्वरेषु यागेषु यजिष्ठं यष्वृतमं होतारं देवानामाह्वातारं यमग्निं वृणते संभजंते विश्वेषां सर्वेषां वसूनामरतिं प्रापयितारं तमग्निं प्रयसा हविर्लक्षणेनान्नेन सपर्यामि । परिचरामि । रत्नं रमणीयं कर्मफलं च यामि । याचामि ॥ वृणते । वृङ् संभक्तौ । क्रैयादिकः । प्रत्ययस्वरः । आरतिम् । ऋ गतिप्रापणयोः । अस्मादौणादिको वहिवस्यर्तिभ्यश्चित् (उ ४-६०) इत्यतिप्रत्ययः । चित्त्वादंतोदात्तत्वम् । सपर्यामि । सपर्यतिः परिचरणकर्मा । सपर पूजायामिति धातुः कंड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । यामि याचामित्यस्य वर्णलोपश्छांदसः ॥ ७ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४