मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ९

संहिता

भवा॒ वरू॑थं गृण॒ते वि॑भावो॒ भवा॑ मघवन्म॒घव॑द्भ्य॒ः शर्म॑ ।
उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

पदपाठः

भव॑ । वरू॑थम् । गृ॒ण॒ते । वि॒भा॒ऽवः॒ । भव॑ । म॒घ॒ऽव॒न् । म॒घव॑त्ऽभ्यः । शर्म॑ ।
उ॒रु॒ष्य । अ॒ग्ने॒ । अंह॑सः । गृ॒णन्त॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

सायणभाष्यम्

हे विभावो विशिष्टप्रकाशाग्ने गृणते त्वां स्तुवते यजमानाय । वरूथमिति गृहनाम । वरूथमनिष्वनिवारकं गृहं भव । हे मघवन् धनवन्नग्ने मघवद्भ्यो हविर्लक्षणधनयुक्तेभ्यो यजमानेभ्यः शर्म सुखं यथा भवति तथा भव । हे अग्ने गृणंतं स्तुवंतमंहसः पापकारिणः शत्रोरुरुष्य । रक्ष । धियावसुः कर्मणा बुद्ध्या वा प्राप्तधनोऽग्निः प्रातरिदानीमिव परेद्युरपि मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ वरूथम् । वृञ् वरणे । जृवृञ्भ्यामूथन् (उ २-६) इत्यूथन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । गृणते । शतुरनुम इति विभक्तेरुदात्तत्वम् । विभावः । विशिष्टा भा विभाः । आतो मनिन्निति विच् । तदस्यास्तीति मतुप् । मादुपधाया इति मतुपो वत्वम् । मतुवसो रुरिति नकारस्य रुत्वम् । मघवद्भ्यः । मघवाबहुलम् (पा ६-४-१२८) इति मघवञ्शब्दस्य तृआदेशः । स च नानुबंधकृतमनेकाल्त्वम् । परि ६ म १-१-५५ । इति वचनात् आलोऽंत्यस्य (पा १-१-५२) इत्यंतस्य भवति । मक्षु । ऋचि तुनुघमक्ष्विति दीर्घः । धियावसुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदस्य सावेकाच इति विभक्तिरुदात्ता । लुगभावश्छांदसः । जगम्यात् । गम्लृ सृप्लृ गतौ । लिङि बहुलं छंदसीति शपः श्लुः ॥ ९ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४