मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५९, ऋक् १

संहिता

व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे॑ अ॒मृता॑ मादयन्ते ।
वैश्वा॑नर॒ नाभि॑रसि क्षिती॒नां स्थूणे॑व॒ जनाँ॑ उप॒मिद्य॑यन्थ ॥

पदपाठः

व॒याः । इत् । अ॒ग्ने॒ । अ॒ग्नयः॑ । ते॒ । अ॒न्ये । त्वे इति॑ । विश्वे॑ । अ॒मृताः॑ । मा॒द॒य॒न्ते॒ ।
वैश्वा॑नर । नाभिः॑ । अ॒सि॒ । क्षि॒ती॒नाम् । स्थूणा॑ऽइव । जना॑न् । उ॒प॒ऽमित् । य॒य॒न्थ॒ ॥

सायणभाष्यम्

वया इदिति सप्तर्चं द्वितीयं सूक्तं नोधस आर्षं त्रैष्वुभम् । वैश्वानरगुणकोऽग्निर्देवता । तथा चानुक्रांतम् । वया इत्सप्त वैश्वानरीयमिति ॥ सूक्तविनियोगो लिंगादवगंतव्यः ॥

वयाः शाखा वेतेर्वातायना भवंतीति यास्कः (नि १-४) हे अग्ने येऽन्येऽग्नयः संति ते सर्वेऽपि ते तव वया इत् शाखा एव । ततस्त्वतोऽन्ये न संतीति भावः । किंच त्वे त्वयि सति विश्वे सर्वेऽमृता अमरणधर्माणो देवा मादयंते । हृष्यंति । न हि त्वद्व्यतिरेकेण तैर्जीवितुं शक्यते । हे वैश्वानर विश्वेणां नराणां जाठररूपेण संबंधिन्नग्ने क्षीतीनां मनुष्याणां नाभिः संनद्धासि । अवस्थापको भवसि । अतस्त्वमुपमिदुपस्थापयिता सन् । यद्वा । उपमिदित्येतद्दृष्टांतविशेषणम् । जनान्ययंथ । अधारयः । तत्र दृष्टांतः । उपमिदुपनिखाता । स्थूणेव । वंशधारणार्थं निखातः । स्तंभो यथा गृहोपरिस्थं वंशं धारयति तद्वत् ॥ वैश्वानर । विश्वे चेमे नरा विश्वानरः । तस्येदमित्यण् । नाभिः । नहो मश्च (उ ४-१२५) इतीञ्प्रत्ययो भकारश्चांतादेशः । ञित्त्वादाद्युदात्तत्वम् । आसि । तासस्त्योर्लोप इति सलोपः । क्षितीनाम् । क्षि निवासगत्योः । अस्मात् क्तिच् क्तौ च संज्ञायामिति क्तिच् । अंतोदात्तात्क्षितिशब्दादुत्तरस्य नामो नामन्यतरस्यामित्युदात्तत्वम् । उपमित् । डुमिञ् प्रक्षेपणे । आस्मादुपपूर्वाद्बहुलवचनात्कर्मणि क्विप् । तुगागमः । ययंथ । यम उपरमे । लिट थलि क्रादिनियमादिट प्राप्त उपदेशेऽत्वतः (पा ७-२-६२) इति प्रतिषेधः ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५