मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५९, ऋक् ३

संहिता

आ सूर्ये॒ न र॒श्मयो॑ ध्रु॒वासो॑ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू॑नि ।
या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा॑ ॥

पदपाठः

आ । सूर्ये॑ । न । र॒श्मयः॑ । ध्रु॒वासः॑ । वै॒श्वा॒न॒रे । द॒धि॒रे॒ । अ॒ग्ना । वसू॑नि ।
या । पर्व॑तेषु । ओष॑धीषु । अ॒प्ऽसु । या । मानु॑षेषु । असि॑ । तस्य॑ । राजा॑ ॥

सायणभाष्यम्

अग्ना वैश्वानरेऽगौ वसूनि धनान्या दधिरे । आहितानि स्थापितानि बभूवुः । तत्र दृष्टांतः । ध्रुवासो निश्चला रश्मयः किरणाः सूर्ये न यथा सूर्य आधीयंते तद्वत् । अतस्त्वं पर्वतादिषु यानि धनानि विद्यंते तस्य धनजातस्य राजासि । अधिपतिर्भवति ॥ अग्ना । सुपां सुलुगिति विभक्तेर्डादेशः । या । शेश्छंदसि बहुलमिति शेर्लोपः । ओषधीषु । उष दाहे । ओषः पाकः । भावे घञ् । ञित्त्वादाद्युदात्तत्वम् । ओष आसु धीयत इत्योषधयः । कर्मण्यधिकरणे चेति किप्रत्ययः । दासीभारादिषु पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । सप्तमी बहुवचन ओषधेश्च विभक्तावप्रथमायाम् (पा ६-३-१३२) इति दीर्घः । अप्सु । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ ३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५