मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५९, ऋक् ४

संहिता

बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता॑ मनु॒ष्यो॒३॒॑ न दक्ष॑ः ।
स्व॑र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै॑श्वान॒राय॒ नृत॑माय य॒ह्वीः ॥

पदपाठः

बृ॒ह॒ती इ॒वेति॑ बृह॒तीऽइ॑व । सू॒नवे॑ । रोद॑सी॒ इति॑ । गिरः॑ । होता॑ । म॒नु॒ष्यः॑ । न । दक्षः॑ ।
स्वः॑ऽवते । स॒त्यऽशु॑ष्माय । पू॒र्वीः । वै॒श्वा॒न॒राय॑ । नृऽत॑माय । य॒ह्वीः ॥

सायणभाष्यम्

रोदसी द्यावापृथिव्यौ सूनवे स्वपुत्राय वैश्वानराय बृहती इव प्रभूते इवाभूताम् । वैश्वानरस्य द्यावापृथिव्योः पुत्रत्वं मंत्रांतरे स्वष्टमवगम्यते । उभा पितरा महयन्न जायताग्निर्ध्यावापृथिवी भूरिरेतसेति । ऋग्वे ३-३-११ । इति । म हतो वैश्वानरस्यावस्थानाय द्यावापृथिव्यौ विस्तते जाते इत्यर्थः । किंचायं होता दक्षः समर्थः पूर्वीर्बहुविधा यह्वीर्महतीर्गिरः स्तुतीर्वैश्वानरायाग्नये प्रायुंक्तेति शेषः । कीदृशाय । स्वर्वते । शोभनगमनयुक्ताय । सत्यशुष्मायावितथबलाय । नृतमायातिशयेन सर्वेषां नेत्रे । तत्र दृष्टांतः । मनुष्यो न । यथा मनुष्यो लौकिको वंदी दातारं प्रभुं बहुविधया स्तुत्या स्तौति तद्वत् ॥ मनुष्यः । मनोर्जातावञ्यतौ षुक्चेति जातौ गम्यमानायां मनुशब्दाद्यत् षुगागमश्च । तित्स्वरित इति स्वरितत्वम् । यतोऽनाव इत्याद्युदात्तत्वं न भवति । तत्र हि द्व्यजित्यनुवर्तते । स्वर्वते । सुपूर्वादर्तेर्भावे विच् । ततो मतुप् । मादुपधाय इति वत्वं ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५