मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५९, ऋक् ७

संहिता

वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा॑जेषु यज॒तो वि॒भावा॑ ।
शा॒त॒व॒ने॒ये श॒तिनी॑भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता॑वान् ॥

पदपाठः

वै॒श्वा॒न॒रः । म॒हि॒म्ना । वि॒श्वऽकृ॑ष्टिः । भ॒रत्ऽवा॑जेषु । य॒ज॒तः । वि॒भाऽवा॑ ।
शा॒त॒ऽव॒ने॒ये । श॒तिनी॑भिः । अ॒ग्निः । पु॒रु॒ऽनी॒थे । ज॒र॒ते॒ । सू॒नृता॑ऽवान् ॥

सायणभाष्यम्

वैश्वानरोऽग्निर्महिम्ना महत्त्वेन विश्वकृष्टिः । कृष्टिरिति मनुष्यनाम । विश्वे सर्वे मनुष्या यस्य स्वभूताः स तथोक्तः । भरद्वाजेषु पुष्टिकरहविर्लक्षणान्नवत्सु यागेषु । यद्वा । एतत्संज्ञेष्वृषिषु यजतो यष्टव्यो विभावा विशेषण प्रकाशयिता सूनृतावान् । सूनृता प्रिया सत्या वाक् । तद्युक्तः । एवंभूतोऽग्निः शातवनेये । शतसंख्याकान् क्रतून्वनति संभजत इति शतवनिः । तस्य पुत्रः शातवनेयः । तस्मिन् पुरुणीथे बहूनां नेतर्येतत्संज्ञ के राजनि च शतिनीभिर्बहुभिः स्तुतिभिर्जरते । स्तूयते ॥ भरद्वाजेषु । भरंति पोषयंति भोक्तृनिति भरंतः । तादृशा वाजा येषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वे प्राप्ते मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । यजतः । भृमृदृशियजिपर्वपच्यमितमिनमिहर्येभ्योऽतच् (उ ३-११०) इति यजतेरतच् प्रत्ययः । विभावा । भा दीप्तौ । आतो मनिन्निति वनिप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । शातवनेये । इन् सर्व धातुभ्य इतीन् प्रत्ययः । शतवनिशब्दः । इतश्चानिञः (पा ४-१-१२२) इति ढक् । कित इत्यंतोदात्तत्वम् । शतिनीभिः । शतशब्दान्मत्वर्थीय इनिः । ऋन्नेभ्य इति ङीप् । पुरुणीथे । पूर्वपदात्संज्ञायामगः (पा ८-४-३) इति णत्वम् । जरते । व्यत्ययेन कर्मणि कर्तृप्रत्ययः ॥ ७ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५