मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६०, ऋक् ३

संहिता

तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः ।
यमृ॒त्विजो॑ वृ॒जने॒ मानु॑षास॒ः प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ॥

पदपाठः

तम् । नव्य॑सी । हृ॒दः । आ । जाय॑मानम् । अ॒स्मत् । सु॒ऽकी॒र्तिः । मधु॑ऽजिह्वम् । अ॒श्याः॒ ।
यम् । ऋ॒त्विजः॑ । वृ॒जने॑ । मानु॑षासः । प्रय॑स्वन्तः । आ॒यवः॑ । जीज॑नन्त ॥

सायणभाष्यम्

नव्यसी नवतरा सुकीर्तिः सुष्ठु कीर्तयित्र्यस्मत् अस्माकं स्तुतिर्हृदो ह्यद्यवस्थितात्प्राणाज्जायमानमुत्पद्यमानम् । अग्निर्हि वायोरुत्पद्यते वायुश्च प्राण एव । यः प्राणः स वायुरित्याम्नानात् । मधुजिह्वं मादयितृज्वालम् । एवंभूतं शमग्निमाश्याः । आभिमुख्येन व्याप्नोतु । वृजने संग्रामे प्राप्ते सत्यायवो मनुष्या यमग्निं जीजनंत यज्ञार्थमुदपादयन् । कीदृशा मनुष्याः । ऋत्विजः ऋतौ काले यष्टारो मानुषासो मनोः पुत्राः प्रयस्वंतो हर्विलक्षणान्नोपेताः ॥ नव्यसी । नवीयसीत्यत्रेकारलोपश्छांदसः । हृदः । अत्र हृदयशब्देन तत्स्थः प्राणो लक्ष्यते । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः । जायमानम् । जनीप्रादुर्भावे । श्यनि ज्ञाजनोर्जेति जादेशः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे श्यनो नित्त्वादाद्युदात्तत्वम् । अस्मत् । सुपां सुलुगिति विभक्तेर्लुक् । आश्याः । अशू व्याप्तौ । लिङि बहुलं छंदसीति विकरणस्य लुक् । व्यत्ययेन परस्मैपदमध्यमौ । जीजनंत । जनी प्रादुर्भावे । ण्यंताल्लुङि च्लेश्चङादेशः । द्विर्भावहलादिशेषः । सन्वद्भावेत्वदीर्घाः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे चङ एव स्वरे प्राप्ते व्यत्ययेनाभ्यस्ताद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६