मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६०, ऋक् ४

संहिता

उ॒शिक्पा॑व॒को वसु॒र्मानु॑षेषु॒ वरे॑ण्यो॒ होता॑धायि वि॒क्षु ।
दमू॑ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाम् ॥

पदपाठः

उ॒शिक् । पा॒व॒कः । वसुः॑ । मानु॑षेषु । वरे॑ण्यः । होता॑ । अ॒धा॒यि॒ । वि॒क्षु ।
दमू॑नाः । गृ॒हऽप॑तिः । दमे॑ । आ । अ॒ग्निः । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् ॥

सायणभाष्यम्

उशिक् कामयमानः पावकः शोधको वसुर्निवासयिता वरेण्यो वरणशीलः एवंभूतो होताग्निर्विक्षु यज्ञगृहं प्रविष्टेषु मानुषेषु यजमानेष्वधायि । स्थाप्यते । स चाग्निर्दमूना रक्षसां दमनकरेण मनसा युक्तो गृहपतिर्गृहाणां पालयिता च सन्दमे यज्ञगृहे रयिपतिर्धनाधिपतिरा भुवत् । आ समंताद्भवति । न केवलमेकस्य रयेरपि तु सर्वेषामित्याह रयिणामिति । यद्वा । रयिणां मध्य उत्कृष्वं यद्धनं तस्य पतिरित्यर्थः ॥ अधायि । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लुङि च्लेश्चिणादेशः आतो युक् चिण्कृतोरिति युगागमः । दमयति राक्षसादिकमिति दमूनाः । दम उपशमे । दमेरूनसिः (उ ४-२३४) इत्यौणादिक ऊनसिप्रत्ययः । यास्कस्त्वाह । दमूना दममना वा दानमना वा दांतमना वापि वा दम इति गृहनाम तन्मनाः स्यात् (नि ४-४) इति दम आ आग्निः आङोऽनुनासिकश्छंदसीत्याकारस्य सानुनासिकत्वम् । प्रकृतिभावश्च । भुवत् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । रयिपतिः । परादिश्छंदसि बहुलमित्यत्तरपदाद्युदात्तत्तम् । रयीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वं ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६