मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६०, ऋक् ५

संहिता

तं त्वा॑ व॒यं पति॑मग्ने रयी॒णां प्र शं॑सामो म॒तिभि॒र्गोत॑मासः ।
आ॒शुं न वा॑जम्भ॒रं म॒र्जय॑न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

पदपाठः

तम् । त्वा॒ । व॒यम् । पति॑म् । अ॒ग्ने॒ । र॒यी॒णाम् । प्र । शं॒सा॒मः॒ । म॒तिऽभिः॑ । गोत॑मासः ।
आ॒शुम् । न । वा॒ज॒म्ऽभ॒रम् । म॒र्जय॑न्तः । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

सायणभाष्यम्

गोतमासो गोतमगोत्रोत्पन्ना वयम् । नोधसः स्तोतुरेकत्वेऽप्यात्मनि पूजार्थं बहुवचनम् । हे अग्ने रयिणां धनानां पतिं रक्षितारं तादृशं त्वा त्वां मतिभिर्मननीयैः स्तोत्रैः प्रशंसामः । प्रकर्षेण स्तुमः । किं कुर्वंतः । वाजंभरं वाजस्य हविर्लक्षणान्नस्य भर्तारं त्वां मर्जयंतो मार्जयंतः । तत्र दृष्टांतः । आशुं न आश्वमिव । यथाश्वमारोहंतः पुरुषास्तस्य वहनप्रदेशं हस्तैर्निमृजंति । तद्वद्वयमप्यग्नेर्हविर्वहनप्रदेशं निमृजंत इत्यर्थः । तथा चाग्निसंमार्जनप्रकरणे वाजसनेयिभिराम्नातम् । अथ मध्ये तूष्णीमेव त्रिः संमार्ष्वि यथा युक्त्वा प्रेहि वहेति व्रजेदेवमेतदग्निं युक्त्वोपक्षिपति प्रेहि देवेभ्यो हव्यं वहेति । धियावसुः । कर्मणा बुद्ध्या वा प्राप्तधनः सोऽग्निः प्रातः श्वोभूतस्याह्नः प्रातःकाले मक्षु शीघ्रं जगम्यात् । आगच्छतु ॥ मतिभिः मन ज्ञान इत्यस्मात्कर्मणि क्तिन् । मंत्रे वृषेषेत्यादिना तस्योदात्तत्वम् । वाजंभरम् । अग्नेरेषा वैदिकी संज्ञा । संज्ञायां भृतृवृजीति (पा ३-२-४६) वाजशब्दे कर्मण्युपपदे खच्प्रत्ययः । आरुर्द्विषदजं तस्य मुम् (पा ६-३-६७) इति मुमागमः । चित इत्यंतोदात्तत्वम् । मर्जयंत । संज्ञा पूर्वकस्य विधेरनित्यत्वात् मृजेर्वृद्धिः (पा ७-२-११४) इति वृद्ध्यभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । जगम्यात् । लिङ् बहुलं छंदसीति शपः श्लुः ॥ ५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६