मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् १४

संहिता

अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तुजेते ।
उपो॑ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या॑य नो॒धाः ॥

पदपाठः

अ॒स्य । इत् । ऊं॒ इति॑ । भि॒या । गि॒रयः॑ । च॒ । दृ॒ळ्हाः । द्यावा॑ । च॒ । भूम॑ । ज॒नुषः॑ । तु॒जे॒ते॒ इति॑ ।
उपो॒ इति॑ । वे॒नस्य॑ । जोगु॑वानः । ओ॒णिम् । स॒द्यः । भु॒व॒त् । वी॒र्या॑य । नो॒धाः ॥

सायणभाष्यम्

अस्यैवेंद्रस्य भिया पक्षज्छेदभयेन गिरयः पर्वता अपि दृळ्हाः । निश्चलाः स्वस्वदेशेऽवतिष्ठंते । जनुषः प्रादुर्भूतादस्मादेवेंद्राद्भीत्या द्यावा भूमा च द्यावापृथिव्यावपि तुजेते । तुजिर्हिंसार्थोऽप्यत्र कंपने द्रष्टव्यः । कंपेते इत्यर्थः । किंच वेनस्य कांचस्यास्यौणिं दुःखस्यापनायकं रक्षणमुपो जोगुवानोऽनेकैः सूक्तैः पुनः पुनरुपशब्दयन् । उपश्लोकयन्नित्यर्थः । एवं भूतोनोधा ऋषिः सद्यस्तदानीमेव वीर्याय भुवत् । वीर्यवानभवत् ॥ द्यावा च भूमा । द्यावा भूमेत्यनियोर्मध्ये चशब्दस्य पाठश्छांदसः । दिवो द्यावेति दिव् शब्दस्य द्यावादेशः । सुपां सुलुगिति विभक्तेर्डादेशः । देवताद्वंद्वे चेत्युभयपद प्रकृतिस्वरत्वम् । पदद्वयप्रसिद्धिरपि सांप्रदायिकी । जनुषः । जनी प्रादुर्भावे । जनेरुसिः (उ २-११६) इत्यौणादिक उसिप्रत्ययः । जोगुवानः । गुङ् अव्यक्ते शब्दे अस्माद्यङ् लुगंताद्व्यत्ययेन शानच् । अदादिवच्चेति वचनाच्छपो लुक् । उवङादेशः । अभ्यस्तानामादिरिस्याद्युदात्तत्वम् । ओणिम् । ओणृ अपनयने । अस्मादौणादिक इ प्रत्ययः । भुवत् । भवतेर्लेट्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुवोस्ति ङीति गुणप्रतिषेधः । नोधाः । नोधा ऋषिर्भवति नवनं दधातीति यास्कः (नि ४-१६) तस्माद्धाञोऽसुन् नवशब्दस्य नोभावश्च ॥ १४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९