मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् १६

संहिता

ए॒वा ते॑ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा॑णि॒ गोत॑मासो अक्रन् ।
ऐषु॑ वि॒श्वपे॑शसं॒ धियं॑ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

पदपाठः

ए॒व । ते॒ । हा॒रि॒ऽयो॒ज॒न॒ । सु॒ऽवृ॒क्ति । इन्द्र॑ । ब्रह्मा॑णि । गोत॑मासः । अ॒क्र॒न् ।
आ । ए॒षु॒ । वि॒श्वऽपे॑शसम् । धिय॑म् । धाः॒ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

सायणभाष्यम्

हर्योरश्वयोर्योजनं यस्मिन्रथे स तथोक्तः । तस्य स्वामित्वेन संबंधी हारियोजनः । हे हारियोजनेंद्र गोतमासो गोतमगोत्रोत्पन्ना ऋषयः सुवृक्ति सुष्ठ्वावर्जकान्यभिमुखीकरणकुशलानि ब्रह्माणि स्तुतिरूपाणि मंत्रजातानि ते तवैवाक्रन् । अकृषत । एषु स्तोतृषु विश्वपेशसं बहुविधरूपयुक्तं धियं धाः । धिया लभ्यत्वाद्धीर्धनमुच्यते । यद्वा । धीशब्दः कर्मवचनः । पश्वादिबहुविधरूपं धनमग्निष्टोमादिकं बहुविधरूपं कर्म वा धाः । धेहि । स्थापय । प्रातरिदानीमिव परेद्युरपि प्रातःकाले धियावसुर्बुद्ध्या कर्मणा वा प्राप्तधन इंद्रो मक्षु शीघ्रं जगम्यात् । अस्मद्रक्षणार्थमागच्छतु ॥ एव । निपातस्य चेति संहितायां दीर्घः । सुवृक्ति । सुपां सुलुगिति शसो लुक् । आक्रन् । करोतेर्लुङि मंत्रे घसह्वरेत्यादिना च्लेर्लुक् । अंतादेशः । तस्य ङित्त्वाद्गुणाभावे यणादेशः । इतश्चेतीकारलोपे संयोगांतलोपे चाडागमः । धाः । छंदसि लुङ् लङ् लिट इति लोडर्थे लुङिगातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ १६ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९